________________
श्रीदेवसूरिप्रबन्धः ।
२८९ अकृत्यकृत्ययोस्तुल्यः कर्त्तव्यत्वस्पृशां सदा । द्विजन्मनां प्रधानत्वं दर्शनानां विडंबनम् ॥ १७१ ॥ इत्येवमूहापोहेन संबंधो नार्पितस्तदा। प्रातः समागतः पृष्टो राजा सचिवगांगिलः॥१७२॥ लिखितो भवता का संबंधः किं वादिनोईयोः। स प्राहैषामपावित्र्यानाही राजसभास्थितिः॥ १७३॥ अतो मया न चालेखि संबधो नृपतिस्ततः। अंतःकोपानलं बभ्रे पयोधिरिव वाडवम् ॥ २७४ ॥ एवं च सदसन्मर्त्यविशेषविदुषस्तव । व्ययस्य करणं तेऽलंकारारोपस्तवोचितः॥१७५॥ प्र(अ)ज्ञानां गौरवर्णोऽपि काल एवावभासते। अल्पोप्यत्र न ते दोषः सा ममैवाविचारिता ॥ १७६ ॥ परं दर्शनबाह्यत्वाद्राम्यवनागरोऽपि सन् । नांतर्मुखो गुणान् दोषीकृत्य यस्मात्प्रजल्पसि ॥ १७७ ॥ अन्यदेकं च ते भाग्यं यत्तेन ब्रह्मचारिणा । एवं विवदमानोऽपि शापाद्भस्मीकृतोऽपि सन् ॥ १७८ ॥ संमान्य चास्य संबंधमधुनैव समर्पय । लिखित्वा वादिनोदिकाले जयपराजये ॥ १७९ ॥ राजादेशं गृहीत्वेति तेन प्रैषि निजोऽनुजः। सांत्वनाय प्रभोः सोऽपि तत्कृत्वायदत्र ते ॥१८॥ प्रभुर्विजयसेनाख्यं प्रैषीत्तत्र मनीषिणम् । नोचितं गमनं तत्र सचिवानां मतौ स्वयम् ॥ १८१॥ दिगंबरो विजीयेत चेत्तन्न्यक्कारपूर्वकम् । निर्वास्योतः पुराद्धृत्वा परिस्पंदं स चौरवत् ॥ १८२॥ अथ श्वेतांबरो हारयेत्तत्तस्य शासनम् । उच्छिद्याशांबरत्वेनावस्थाप्यं तैः स्थितैः किमु ॥ १८३॥ इत्येवं लेखयित्वात्र तं राजकरणेऽमुचत् । कृतपक्षोपि संबंधोऽनुमतस्तैर्बलोन्नतैः॥१८४॥ प्रेषितः सिद्धराजेन श्रीश्रीपालः कवीश्वरः। शिक्षां दत्वातिवात्सल्यादेवसूरिप्रभोरथ ॥ १८५॥ स प्रणम्य नृपस्याह वाचिकं तत्पुरः स्फुरन् । स्वदेशपरदेशस्था अपि विज्ञा ममार्हिताः॥१८६॥ परं तथा त्वया बंधो वक्तव्यं वादलीलया। यथा देशांतरीजेयः स्थेयः श्रेयः कृतेर्मम ॥ १८७॥
१२. प्रजानां.
25