________________
प्रभावकचरिते
त्वय्येव मम वित्तस्य दृढावस्थितिरीदृशी । यथा व्रीडयसे नो नः सभां कार्यस्तथा ध्रुवम् ॥ १८८ ॥ अथ श्रीदेवसूरिश्व प्रददे प्रतिवाचिकम् । प्रतापस्ते महाराज विदेशिबुधजित्वरः ॥ १८९ ॥ वयं सहकृतस्तत्र परं मा दोल्यतां मनः । गुरूपदिष्टपक्षधैर्विजेष्ये तं विवादिनम् ॥ १९० ॥ कविदुषां शास्ता तद्वचः कौतुकी च कः । भवानिव भवानिच्छुरप्यहं येन वादकृत् ॥ १९१ ॥ इति तद्वच आख्याच्च श्रीपालः कविवासवः । भूपालोपि मुदं प्राप देवसूरिवचोमृतैः ॥ ९९२ ॥ चंद्राष्ट शिववर्षेऽत्र १९८१ वैशाखे पूर्णिमादिने । आहूतौ वादशालायां तौ वादिप्रतिवादिनौ ॥ १९३ ॥ वादी कुमुदचंद्रश्चाययावाडंबरस्थितः । सुखासनसमासीनश्छत्रचामरशोभितः ॥ १९४ ॥ प्रतीहारेण मुक्तेऽत्र पट्टे वासावुपाविशत् । आहाद्यापि न चायाति श्वेतभिक्षुः कथं भिया ॥ १९५ ॥ अथ श्रीदेवसूरिश्वाययौ भूपालसंसदम् । ऊचे कुमुदचंद्रश्च खप्रज्ञाबलगर्वितः ॥ १९६ ॥ तथाहि - श्वेतांबरोऽयं किं ब्रूयान्मम वादरणांगणे ।
सांप्रतं सांप्रतं तस्माच्छीघ्रमस्य पलायनम् ॥ १९७ ॥ सूरिः प्रोवाच बंधु किमसत्यं वदत्यसौ । श्वेतांबरो यतः श्वायमस्माद्वादरणांगणे ॥ १९८ ॥ भषणे तस्य पर्याप्तं रणेनाधिकृतिः पुनः । परं पलायनं शीघ्रं युक्तं युक्तं वदत्यदः ॥ १९९॥ श्रुत्वेति पार्षदा वाचं शब्दखंडनयानया । स्मिता विस्मितमाधाय दध्युरस्य जयो ध्रुवम् ॥ २०० ॥ एकाग्रमानसौ तत्र शासने पक्षपातिनौ । थाहst नागदेवश्च सह चाजग्मतुर्मुदा ॥ २०१ ॥ थाहङः स्वगुरुं व्यज्ञपयद्रव्येण भेदिना । सभ्याश्रुता मया द्रव्यं तद्दास्ये द्विगुणं ध्रुवम् ॥ २०२ ॥ प्रभावनाकृते स्वीयशासने वत्समादिश । अथावदहुरुर्द्रव्यव्ययः कार्यो न हि त्वया ॥ २०३ ॥ अद्य प्रभुभिरादिष्टः श्रीमुनिचंद्रसूरिभिः । स्वप्ने यद्वत्स वक्तव्यः प्रयोगः स्त्रीषु मुक्तिकृत् ॥ २०४ ॥
१ H. चासामु. २ P. प्रभृति.
२९०