________________
श्रीदेवसूरिप्रबन्धः।
२९१ उत्तराध्ययनग्रंथटीका श्रीशांतिसूरिभिः । कृता तदनुसारेण वक्तव्यं जेष्यते रिपुः ॥ २०५॥ इत्युक्त्वा नृपतेराशीर्वादं दर्शनसंगतम् । अभ्यधात् सूरिरानंदहेतुं केतुं विवादिनाम् ॥ २०६॥ नारीणां विदधाति निर्वृतिपदं श्वेतांबरःप्रोल्लसकीर्तिस्फीतिमनोहरं नयपथप्रस्तारभंगीगृहम् । यस्मिन्केवलिनो विनिर्जितपरोत्सेकाः सदा दंतिनो राज्यं तजिनशासनं च भवतश्चौलुक्य जीयाञ्चिरम् ॥२०७॥ ऊचे कुमुदचंद्रेण वादिना सिद्धभूपते ।
आशीरासीमभूमीशविद्वद्विजयशोभिनः ॥ २०८ ॥ सा चेयं-खद्योतद्युतिमातनोति सविता जीर्णोर्णनाभालय
च्छायामाश्रयते शशी मशकतामायांति यत्राद्रयः। इत्थं वर्णयतोनभस्तव यशो जातं स्मृतेर्गोचरं तद्यत्र भ्रमरायते नरपते वाचस्ततो मुद्रिताः॥२०९॥ तस्मिन्महर्षिरुत्साहसागरश्च कलानिधिः। प्रज्ञाभिरामो रामश्च नृपस्यैते सभासदः ॥२१०॥ ते प्रोचुर्मुद्रिता वाच इति दिग्वाससः क्षतिः। नारीमुक्ति निमुक्तिर्यत्र तत्र जयो ध्रुवः॥ २११ ॥ देवाचार्यश्च भानुश्च श्रीपालश्च महाकविः । पक्षे दैगंबरे तत्र केशवत्रितयं मतम् ॥ २१२॥ तत्रोत्साहो मदोत्साह उवाच प्रकटाक्षरम् ।
किंचिदुत्प्रासनागर्भ दृष्ट्वा दिग्वस्त्रपार्षदात् ॥ २१३॥ तथाहि-संवृतावयवमस्तदूषणं साधनं सदसि दर्शयिष्यतः ।
अस्य लुंचितकचस्य केवलं केशवत्रितयमेति सभ्यताम्२१४ महर्षिणा च विज्ञप्त उपलक्षप्रभुस्ततः। प्रयोग उच्यतां सम्यगादिदेशेति कौतुकात् ॥ २१५॥ ततोऽसौ नास्ति निर्वाणं स्त्रीभवस्थस्य देहिनः । तुच्छसत्वतया तस्य यस्तुच्छो मुक्तिरस्य न ॥ २१६॥ अत्रोदाहरणं बालः पुमान् तुच्छाऽबलाभवः। अतो न निर्वृतिस्तत्र प्रयोगममुमाह सः ॥२१७॥ देवसूरिरथाहमासिद्धधर्मिविशेषणम् । स्त्रीभावनिर्वृति प्राप मरुदेवागमे मतम् ॥ २१८ ॥ तवाप्रसिद्धमेतच्चेदनेकांतं ततः पठ। तस्य मार्गमतिक्रम्य दुर्नयो ह्यवधारणम् ॥ २१९ ॥ १D. ध्याति.