________________
२९२
प्रभावकचरिते तथा हेतुश्च ते दृष्यो नैकांतिकतया सतः । स्त्रियोऽपि यन्महासत्वाः प्रत्यक्षागमवीक्षिताः ॥ २२० ॥ सीताद्या आगमेऽध्यक्षं पुनः साक्षान्महीपतेः। माता श्रीमयणल्लाख्या सत्वधर्मैकशेवधिः ॥ २२१ ॥ तथा व्याप्तिरलीकेयं प्रतिव्याप्ते प्रढौकनात् । याः स्त्रियाम्ना ध्रुवं तुच्छा नैतत्तत्सत्वदर्शनात् ॥ २२२॥ तथा तद्दर्शनात्तत्रोदाहृतिश्चापि दूषिता। बालं पुंसामभिज्ञानादतिमुक्ताकसाधुवत् ॥ २२३ ॥ तथास्योपनयोऽसिद्धःप्राक् सिद्धांतात्सदूषणात् । ततो निगमनं दुष्यं प्रत्यनुमानसंभवात् ॥ २२४॥ अनूद्य दूषयित्वैवं परपक्षमथ स्वकम् । पक्षे देवगुरुः प्राह स्त्रीभवेष्वथ निर्वृतिः ॥२२५॥ प्राणिनः सत्ववैशिष्ट्यात् स्त्रियः सत्वाधिका मया । दृष्टाः कुंतीसुभद्राद्या अथोदाहृतिरागमे ॥ २२६ ॥ महासत्वाः स्त्रियः संति मोक्षं गच्छंति निश्चितम् । इत्युक्त्वा विरते देवगुरावाशांबरोऽवदत् ॥ २२७ ॥ पुनः पठ ततोऽवाचि तत्राप्यनवधारिते। त्रिरप्याह कृते नैवमबुद्ध्वा तमदूषयत् ॥ २२८ ॥ प्रतिवाद्याह वाच्यस्यामबोधः प्रकटोत्तरम् । दिग्वासाः प्राह जल्पोऽयं कटित्रे लिख्यतामिह ॥ २२९ ॥ महर्षिः प्राह संपूर्णा वादमुद्रा च दृश्यते। दिगंबरो जितः श्वेतांबरो विजयमाप्य च ॥ २३० ॥ एवं चानुमते राज्ञा प्रयोगं केशवोऽलिखत् । बुवा च दूषिते तत्र देवसूरिस्तदावदत् ॥ २३१ ॥ अनूद्य दूषणं भित्त्वा स्वपक्षं स्थापयनिह । कोटाकोटीति शब्दं स प्रयुयोज विदूषणम् ॥ २३२॥ अपशब्दोऽयमित्युक्ते वादिना पार्षदेश्वरः ।
उत्साहः प्राह शुद्धोऽयं शब्दः पाणिनिसूचितः ॥ २३३॥ उक्तंच-कोटाकोटिः कोटिकोटी कोटिकोटिरिति त्रयः ।
शब्दाः साधुतयाहतसंमताः पाणिनेरमी ॥ २३४ ॥ इत्थं निरनुयोज्योनुयोगो निग्रहभूमिका । तवैवैषा समायाता व्यावर्त्तस्व ततो गृहात् ॥ २३५॥ अशक्नुवन्निति प्रत्युत्तरे देवगुरोस्ततः।
सवैलक्षमथाहस्मानुत्तरः स दिगंबरः ॥२३६ ॥ १P. या स्त्रियो तास्तुवं०.