________________
श्रीदेवसूरिप्रबन्धः ।
२९३ महाराज महान् वादी देवाचार्यः किमुच्यते । राजाह वद् निस्तंद्र कथयिष्यामि विस्मृतम् ॥ २३७॥ अवदत्यन्यसभ्यैश्च हरिताला प्रपातिता। संबंधकविधि भूप आदिशनिजपूरुषैः ॥ २३८ ॥ जयपत्रं प्रसादेन देवसूरेर्ददौ नृपः। ततोऽवादीहुरुस्तं च किमप्याचक्ष्महे वचः॥२३९॥ शास्त्रीयवादमुद्रायां निग्रहो यत्पराजयः। तद्वादिनस्तिरस्कारः कोऽपि नैव विरच्यताम् ॥२४॥ राजाह भवतां वाग्भिरिदमप्यस्तु किं पुनः। आडंबरापहारेण दर्शनित्वमवाप्यताम् ॥ २४१॥ एवं कृते तदावशार्गलाख्या सिद्धयोगिनी । श्रीमत्कामाख्यया देव्या प्रहिता साह्यगौरवात् ॥ २४२॥ भूयास्त्वमक्षयस्कंधः सिद्धाधीशस्तथा सुहृत् । तथा श्रीदेवसूरिश्वाशिषेत्यभिननंद तौ ॥ २४३॥ मषीकूर्चकमानीय भाले न्यस्तो दिगंबरः। ततः सा पश्यतामेव निश्चकाम नभोध्वना ॥ २४४॥ तुष्टिदाने ततो लक्षं द्रव्यस्य मनुजाधिपः। ददन्यषेधि निर्ग्रथेश्वरेणास्पृहताजुषा ॥ २४५॥ गणगंधर्वसिद्धादिदेवैः पूर्वमपीक्षितः। राजादेशात्प्रवेशस्य सोवय॑त महोत्सवः॥ २४६ ॥ समस्ततूर्यनिर्घोषपूर्व संगीतमंगलैः। कुलांगनाकृतैः सूरिर्वसतौ प्रविवेश सः ॥ २४७॥ राजवैतालिकस्तत्र तारखरत आशिषः। ददौ सदौचितीकृत्यविदं देवगुरुं प्रति ॥ २४८॥ संतोषस्फारनिःकिंचनजनवचनैराहतं प्रेक्ष्य नव्यं कामोहिंसादिकेभ्योऽप्यवगणिततमःशत्रुपक्षे शमादौ । आदिष्टो यस्य चेतो नृपतिपरिभवात्पुण्यपण्यं प्रवेश्य , प्रायासीद्वालयित्वाशुचिमतिवहिकां देवसूरिःस नंद्यात्॥४९ श्रीसिद्धहेमचंद्राभिधानशब्दानुशासने।
सूत्रधारः प्रभुः श्रीमान् हेमचंद्रप्रभुर्जगौ ॥ २५० ॥ तथाहि-यदि नाम कुमुदचंद्रं नाजेष्यद्देवसूरिरहिमरुचिः।
कटिपरिधानमधास्यत कतमः श्वेतांबरो जगति ॥ २५१॥ श्रीचंद्रसूरयस्तत्र सिद्धांतस्येव मूर्तयः।
शासनोद्धारकूर्मायाशासन् श्रीदेवसूरये ॥ २५२॥ १D H नंदितो. २ H. स्पृहमा०. ३ H. पार्तन. ४ H. कामा.