________________
प्रभावकचरिते
२९४
श्रीमद्देवगुरौ सिंहासनस्थे सति भास्वति । प्रतिष्ठायां न लग्नानि वृत्तानि महतामपि ॥ २५३ ॥ तदा गच्छस्थसंघस्य समस्तस्य विभावरी। विभावरीयसी चैषा विनिद्रत्वात्क्षणाद्गात् ॥ २५४ ॥ प्रातश्च प्रत्युपेक्षायामुपधिं साधवस्तदा । अपश्यन् खंडशश्चूर्णीकृतामाखुभिरुद्भवैः ॥ २५५ ॥ प्रवर्तकेन विज्ञप्ते गुरूणां ते व्यजिज्ञपन् । दिग्वासाः स्वसमं वेषं ममापि हि चिकीर्षति ॥ २५६ ॥ तत्र प्रतिनिधौ शक्तिर्मम पूज्यप्रसादतः । सौवीरपूर्ण आनायि कुंभो यतित एकतः ॥ २५७ ॥ गलपिंडनतः कंठं तस्य बद्धांतरामुचन् । अभिमंत्र्य ततः साधूनाह सर्वत्र साहसी ॥ २५८ ॥ खेदं कमपि माकार्षभवंतः कौतुकं महत् । समीक्षत यदेतेषां माविदुर्विनये फलम् ॥ २५९ ॥ पादोनप्रहरे श्राद्धा नग्नस्याजग्मुरानताः। प्रासादाहरुमस्माकं मुंचैनमिति भाषिणः ॥२६०॥ मद्वंधोः का भवेद्वाधा न जानीमो वयं ननु । अज्ञानदं ततः सर्वप्रकारैस्तैर्निषेधिताः ॥२६१॥ सार्द्धयामे च संपूर्णे नग्नाचार्यस्तदागमत् । नग्नाचार्य इवाहार्यः प्रशंसां प्रकटं धत्॥ २६२॥ आश्लिष्याद्धोसने सूरिरुपावेशयदत्र तम्। भ्रातः का बत पीडास्ति ममाज्ञातमिदं ध्रुवम् ॥ २६३ ॥ स प्राह हिंद्धि मा त्वं मां भव मा दीर्घरोषभूः। विमोचय निरोधं मे तन्निरोधे मृतिधुवम् ॥ २६४ ॥ तस्यैतद्ववचनं दीनं श्रुत्वावदसौ प्रभुः। भवान् सपरिवारोऽपि यातु मे वसतेबहिः ॥२६५॥ तदादेशेन तद्वारे स्थिता आध्माततुंदकाः। लुलाया इव संपूर्णेतिम्पदंगास्तदा बभुः ॥ २६६ ॥ साधोः पार्थात् समानाय्य कुंभं सौवीरपूरितम् । आच्छोटयन्मुखं तेषां संजज्ञे मुत्कलः श्रवः ॥ २६७ ॥ अनिरोधे निरोधे सत्यसपत्राकृताश्च ते। नृजलस्य प्रवाहेण जनः सर्वोऽपि विस्मितः ॥ २६८ ॥ अर्हितोपि भृशं शोकतप्तस्तस्मात्पराभवात् । ययौ कुमुदचंद्रोऽयमदृश्यत्वममास्थि च ॥ २६९ ॥