________________
श्रीदेवसूरिप्रबन्धः ।
२९५ तुष्टिदानं ददानस्य राज्ञः सूरेरगृह्णतः। . . आशुकोष्ठे गते मंत्रीराज्यारामशुकोऽब्रवीत् ॥ २७० ॥ देवैषां निःस्पृहाणां न धनेच्छा तजिनालयः। विधाप्यते यथामीषां पुण्यं तव च वर्धते ॥ २७१ ॥ भवत्वेवं नृपप्रोक्ते मंत्री चैत्यमकारयत् । खेन तेनेतरेणापि स्वामिनानुमतेन सः ॥२७२॥ दिनस्तोकं च संपूर्णः प्रासादोऽभ्रंलिहो महान् । मेरुचूलोपमः स्वर्णरत्नकुंभध्वजालिभिः ॥ २७३ ॥ श्रीनाभेयविभोबिंब पित्तलामयमद्भुतम् । दृशामगोचरं रोचिःपूरतः सूर्यबिंबवत् ॥ २७४ ॥ अनलाष्टशिवे वर्षे ११८३ वैशाखद्वादशीतिथौ। प्रतिष्ठा विदधे तत्र चतुर्भिः सूरिभिस्तदा ॥ २७५ ॥ एवं प्रभावनापूरप्लाविते धर्मिणां हृदि । क्षेत्रेऽवपन् बोधिबीजं चिरं च व्यहरत्प्रभुः॥ २७६॥ अन्यदा व्रजतोऽरण्ये नाम्ना पिप्पलवाटके। शार्दूलं गुरुशार्दूलो रेखायातं न्यषेधयंत् ॥ २७७॥ बालवृद्धाकुलो गच्छो विहारे प्रांतरावनौ । श्रुधादिबाधया तत्र क्लिष्टो दुःप्रतिकारया ॥ २७८ ॥ तदीयचिंतामात्रेण सार्थेऽकस्मादुपागते । प्रासुकैर्भक्तपानैस्तद्भव्यास्तं प्रत्यलाभयन् ॥ युग्मम् ॥ २७९ ॥ स्याद्वादपूर्वकं रत्नाकर स्वादुवचोऽमृतम् । प्रमेयशतरत्नाढ्यममुक्तं स किल श्रिया ॥ २८०॥ पीतान्दृष्ट्वा पुरा कुंभोद्भवेनांभोनिधीनिह । परवादिघटोद्भूतशतागम्यं व्यधान्नवम् ॥ युग्मम् ॥ २८१॥ इति श्रीदेवसूरीणामसंख्यातिशयस्पृशाम् । वर्षाणां व्यधिकाशीतिरत्यक्रामदतंद्रिणाम् ॥ २८२॥ श्रीभद्रेश्वरसूरीणां गच्छभारं समर्प्य ते। जैनप्रभावनास्थेमनिस्तुषश्रेयसि स्थिताः ॥ २८३ ॥ रसयुग्मरवौ वर्षे १२२६ श्रावणे मासि संगते । कृष्णपक्षस्य सप्तम्यामपराह्ने गुरोर्दिने ॥ २८४ ॥ मर्त्यलोकस्थितं लोकं प्रतिबोध्य पुरंदरम् । बोधका इव ते जग्मुर्दिवं श्रीदेवसूरयः॥२८५॥ त्रिभिर्विशेषकम् ॥ शिखिवेदशिवे ११४३ जन्म दीक्षा युग्मशरेश्वरे ११५२।
वेदाश्वशंकरे वर्षे ११७४ सूरित्वमभवत्प्रभोः ॥ २८६॥ १P रेखयासंन्य.