SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २९६ प्रभावकचरिते नवमे वत्सरे दीक्षा एकविंशत्तमे तथा । सूरित्वं सकलायुश्च त्र्यशीतिवत्सरा अभूत् ॥ २८७ ॥ इत्थं श्रीदेवसूरेश्वरितमधरितक्षुद्रवादिप्रवादं । नादं बर्द्धिष्णुजैनप्रवचनभविनां सत्वमुक्तैरसेव्यम् । श्रेष्ठं श्रेयःप्रदं तद्भवतु भवभृतामद्य काले भवानां नंद्यादाचंद्रकालं विबुधजनशतैर्नित्यमभ्यस्यमानम् ॥२८८ ॥ श्रीचंद्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभाचंद्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा। श्रीपूर्वर्षिचरित्ररोहणगिरौ श्रीदेवसूरेः कथा श्रीप्रद्युम्नमुनींदुना विशदितः शंगः कुयुग्मक्रमः ।। २८९ ॥ अर्थ यच्छति संमृतिस्थितिमतां दुःखापनोदक्षम कल्पद्रुव्रजचिंतिताश्मनिवहादप्यद्भुतं यः प्रभुः। स श्रीमान् कनकप्रभः कथमयं शक्यो मया वर्णितुं प्रद्युम्नो यतिनायकश्च समभूद्यन्नाममंत्रस्मृतेः ॥ २९०॥ इति श्रीदेवसूरिप्रबन्धः। ग्रं० ३२५ उभयं ४८७९ ॥ हेमचंद्रसूरिप्रबंधः। श्रीहेमचंद्रसूरीणामपूर्व वचनामृतम् । जीवातुर्विश्वजीवानां राजचित्तावनिस्थितम् ॥१॥ . पातकांतकमातंगस्पर्शदूषणभूषणाः। श्रीहेमचंद्रसूरीणां वाचः स्वर्णोदकद्युतः॥२॥ अनंतागमविद्यामृन्मृतखोजीवनस्थितिः। श्रीहेमसूरिरव्याद्वः प्रतिश्रीपादलिप्तकः॥३॥ कृतिसदृत्तमुक्तास्त्रग्नायकश्चरितं प्रभोः। स्थाप्यतेऽतः प्रकाशाय सतां हृदयवेश्मसु॥४॥ अस्ति श्रीगूर्जरो देशः क्लेशावेशवियुक्तभूः। पुरुषार्थत्रयश्रीषु स्वर्गोपीच्छति यत्तुलाम् ॥५॥ अणहिल्लपुरं नाम कामधुक प्रणयिव्रजे। अस्ति प्रासादराजीभिर्नगरं नगरंगभूः ॥६॥ संक्रंदनसुपर्वारिद्विजिह्वा यस्य नोपमाम् । सुरासुरोरगाधीशाः प्रापुलॊकेश्वरा अपि ॥७॥ स तत्र वासुधासारसंप्रीणितचकोरकः । राजा सिद्धाधिपः सिद्धाधिपगीतयशा अभूत् ॥८॥ युग्मम् ॥ सत्पूजाभोजशृंगारप्रभावदृढरंगभूः। बंधूकमिव बंधूकं देशे तत्रास्ति सत्पुरम् ॥९॥
SR No.002357
Book TitlePrabhavak Charitam
Original Sutra AuthorN/A
AuthorHiranand M Sharmshastri
PublisherTukaram Javaji
Publication Year1909
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy