________________
हेमचंद्रसूरिप्रबन्धः।
२९७ . व्यूढमोढान्वयप्रौढ उदूढमहिमा दृढः। बाढमाढौकयद्दाढ्यं प्रौढिषु प्रौढचेतसाम् ॥ १० ॥ उत्कोचकृतसंकोच उल्लोचः सत्वमंडपे। श्रेष्ठी तत्राभवञ्चाचः प्रवाचः पूजयन् सदा ॥ युग्मम् ॥ ११ ॥ गेहिनी पाहिनी तस्य देहिनी मंदिरंदिरा । यस्याः सीतासुभद्राद्याः सत्यः सत्याः सतीत्वतः॥१२॥ सा स्त्री चिंतामणिश्चितामणि स्वप्नेऽन्यदैक्षत । दत्तं निजगुरूणां च भत्त्यावेशनिवेशतः ॥ १३॥ .. चांद्रगच्छसरःपद्मं तत्रास्ते मंडितो गुणैः। प्रद्युम्नसूरिः शिष्यः श्रीदेवचंद्रमुनीश्वरः ॥ १४ ॥ आचख्यौ पाहिनी प्रातः स्वप्नमस्वप्नसूचितम् । तत्पुरः स तदर्थं च शास्त्रदृष्टं जगौ गुरुः ॥१५॥ जैनशासनपाथोधिकौस्तुभः संभवी सुतः। तव स्तवकृतो यस्य देवा अपि सुवृत्ततः॥ १६ ॥ श्रीवीतरागबिंबानां प्रतिष्ठादोहदं दधौ। अन्यदा सा स चापूरि सत्पत्या भूरिपुण्यतः॥१७॥ असूत सा च पुण्येऽह्नि जितवह्निप्रभं रुचा। मलयाचलचूले च चंदनं नंदनं मुदा ॥ १८ ॥ नानाविधध्वनत्तूर्यभरडंबरितांबरैः। .. . वर्धापनैर्व्यतीते च द्वादशाहे मुदा तदा ॥ १९ ॥ अभिधाविधिमाधित्सुः सनाभीन्भक्तितो निजान् । आहूय व्याहरञ्चाचः सदाचरणबंधुरः ॥ २० ॥ अस्मद्गृहे वितीर्णेऽत्र प्रतिष्ठादोहदोऽजनि । एतन्मातुस्तया रम्याः पूजाभिः स्युः सुरा अपि ॥२१॥ तच्चंगदेव इत्यस्य स्थानभृन्नाम सान्वयम्। विदधे विश्ववस्तूनां यतः सत्यं शुभायति ॥२२॥ क्रमुकैः क्रोडकर्पूरैः पत्रैः सौरभनिर्भरैः। दत्त्वा नागरखंडैश्च तांबूलं तान् व्यसर्जयत् ॥ २३॥ वर्द्धमानो वर्द्धमान इवासौ मंगलाश्रयः। शिशुत्वेऽप्यशिशुप्रज्ञः सोभूदक्षतदक्षतः ॥ २४॥ तस्याथ पंचमे वर्षे वर्षीयस इवाभवत् । मतिः सहरुशुश्रूषाविधौ विधुरितैनसः॥२५॥ अन्यदा मोढचैत्यांतः प्रभूणां चैत्यवंदनम्।
कुर्वतां पाहिनि प्रायात् सपुत्रा तत्र पुण्यभूः॥२६॥ १H. बर्द्धापने० २ P व्याहरच्चाचः ? ३ P वतीर्णे.