________________
२९८
प्रभावकचरिते साच प्रदक्षिणां दत्वा यावत्कुर्युः स्तुति जिने । चंगदेवो निषद्यायां तावन्निविविशे द्रुतम् ॥ २७॥ स्मरसि त्वं महास्वप्नं सकृदालोकयिष्यसि ।। तस्याभिज्ञानमीक्षस्व स्वयं पुत्रेण यत्कृतम् ॥ २८ ॥ इत्युक्त्वा गुरुभिः पुत्रः संघनंदननंदनः। कल्पवृक्ष इवाप्रार्थि स जनन्या समीपतः॥ २९॥ सा प्राह प्रार्थ्यतामस्य पिता युक्तमिदं ननु । ते तदीयाननुज्ञाया भीताः किमपि नाभ्यधुः ॥ ३० ॥ अलंध्यत्वाहुरोर्वाचामाचारस्थितया तया। दूनयापि सुतः स्नेहादाjत स्वप्नसंस्मृतेः ॥ ३१॥ तमादाय स्तंभतीर्थे जग्मुः श्रीपार्श्वमंदिरे । माघे सितचतुर्दश्यां ब्राह्मे धिष्ण्ये शनेर्दिने ॥ ३२॥ धिष्ण्ये तथाष्टमे धर्मस्थिते चंद्रे वृषोपगे । लग्ने बृहस्पतौ शत्रुस्थितयोः सूर्यभौमयोः॥ ३३॥ श्रीमानुदयनस्तस्य दीझोत्सवमकारयत् । सोमचंद्र इति ख्यातं नामास्य गुरवो दधुः ॥ ३४ ॥ संचस्करुः परिस्कारान् प्रज्ञाप्य परमाक्षरैः। अर्हतैस्तेऽहमर्हाणां तमेकप्रणिधानतः ॥ ३५॥ अथेत्यमिलिते कोपकलिते कट्रभाषिणि ।। प्रोचे प्राचेतसाभस्तमयं प्राशमयत् स्वयम् ॥ ३६॥ सोमचंद्रस्ततश्चंद्रोज्ज्वलप्रज्ञाबलादसौ। तर्कलक्षणसाहित्यविद्याः पर्यच्छिनद्रुतम् ॥ ३७॥ अन्यदा चिंतयत्पूर्व परो लक्षपदानुगः। आसीदेकपदात्तस्माद्धिगस्मानल्पमेधसः ॥ ३८॥ तत आराधयिष्यामि देवीं काश्मीरवासिनीम् । चकोरद्विजरोचिष्णुं ज्योत्स्नामिव कलावतः ॥ ३९ ॥ इति व्यज्ञपयत्प्रातः प्रभुं विनयनम्रवाक् । संमुखीनागमं देव्या ध्यात्वा सोऽप्यन्वमन्यत ॥४०॥ गीतार्थे साधुभिः सार्ध धाम विद्याव्रजस्य च । प्रस्थानं ताम्रलिप्त्याः स ब्राह्मीदेशोपरिव्यधात् ॥४१॥ श्रीरैवतावतारे च तीर्थे श्रीनेमिनामतः । साथै साधुमते तत्रावात्सीदवहितस्थितिः॥४२॥ निशीथेऽस्याविनिद्रस्य नासाग्रन्यस्तचक्षुषः।
आराधनात्समक्षाभूद्राह्मी ब्रह्ममहोनिधिः॥४३ ॥ १P यत्तदालोक.