SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ हेमचंद्रसूरिप्रबन्धः। २९९ वत्स स्वच्छमते यासीर्मास्म देशांतरं भवान् । तुष्टा त्वद्भक्तिपुश्याऽहं सेत्स्यतीहितमत्र ते ॥४४॥ इत्युक्त्वा सा तिरोधत्त देवी वाचामधीश्वरी। स्तुत्या तस्या निशां नीत्वा पश्चादागादुपाश्रयम् ॥४५॥युग्मम् सिद्धसारस्वतोऽक्लेशात्सोमः सीमा विपश्चिताम् । अभूदभूमिरुन्निद्रांतरवैरिकृतदुहः॥ ४६॥ प्रभावकधुराधुर्यममुं सूरिपदोचितम्। विज्ञाय संघमामंत्र्य गुरवोऽमंत्रयन्निति ॥४७॥ योग्यं शिष्यं पदे न्यस्य स्वकार्य कर्तुमौचिती। अस्मत्पूर्वऽमुमाचारं सदा विहितपूर्विणः ॥४८॥ तदैव विज्ञदैवज्ञवजाल्लग्नं व्यचारय। विमृश्य तेऽथ व्याचख्युः सर्वोत्तमगुणं क्षणम् ॥४९॥ जीवः कर्के तनौ सूर्यो मेषे व्योनि बुधान्वितः । चंद्रो वृषे च लाभस्थो भौमो धनुषि षष्टमः॥ ५० ॥ धर्मस्थाने झषे शुक्रः शनिरेकादशो वृषे । राहुस्तृतीयः कन्यायां वैश्वविघ्नविनाशनः॥५१॥ इति सर्वग्रहबलोपेतं लग्नं समृद्धिकृत् । होरा चांद्री ततः पूर्वा द्रेष्काणः प्रथमस्ततः॥५२॥ वर्गोत्तमः शशांकांशो नवमो द्वादशस्तथा। त्रिंशांशो वाक्पतेः षष्ठो लग्नेऽस्मिन् गुणमंडिते ॥५३॥ प्रतिष्ठा यस्य जायेत पुरुषस्य सुरस्य च । राज्ञां ज्ञातो जगत्पूज्यः स भवेद्विश्वशेखरः ॥५४॥ कुलकम् अथ वैशाखमासस्य तृतीयामध्यमेऽहनि । श्रीसंघनगराधीशविहितोत्सवपूर्वकम् ॥५५॥ मुहूर्ते पूर्वनिर्णीते कृतनंदीविधिक्रमाः। ध्वनत्र्यरवोन्मुद्रमंगलाचारबंधुरम् ॥ ५६ ॥ शब्दाद्वैतेथ विश्रांते समये घोषिते सति । पूरकापूरितश्वासंकुभको दमेदुरा ॥ ५७ ॥ श्रवणेऽगरुकपूरचंदनद्रवचर्चिते ।। कृतिनः सोमचंद्रस्य निष्टानिष्टांतरात्मनः ॥ ५८॥ श्रीगौतमादिसूरीशैराराधितमबाधितम् ।। श्रीदेवचंद्रगुरवः सूरिमंत्रमचीकथन् ॥५९॥ पंचभिः कुलकम् । तिरस्कृतकलाकेलिः कलाकेलिकुलाश्रयः। श्रीहेमचंद्रप्रभुः श्रीमान्नाम्ना विख्यातिमाप सः॥६०॥ १ H. मबो०. २ P. हेमचं०.
SR No.002357
Book TitlePrabhavak Charitam
Original Sutra AuthorN/A
AuthorHiranand M Sharmshastri
PublisherTukaram Javaji
Publication Year1909
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy