________________
प्रभावकचरिते
तदा च पाहिनी स्नेहवाहिनी सुत उत्तमे । तत्र चारित्रमादत्ताविहस्ता गुरुहस्ततः ॥ ६१॥ प्रवर्तिनी प्रतिष्ठां च दापयामास नम्रगी। तदैवाभिनवाचार्यो गुरुभ्यः सभ्यसाक्षिकम् ॥ ६२॥ सिंहासनासनं तस्या अन्वमानयदेष च । कटरे जननीभक्तिरुत्तमानां कषोपलः ॥६३॥ श्रीहेमचंद्रसूरिः श्रीसंघसागरकौस्तुभः। विजहारान्यदा श्रीमदणहिल्लपुरं पुरम् ॥ ६४ ॥ श्रीसिद्धभूभृदन्येधुराजपाटिकयाचरत् । हेमचंद्रप्रभुं वीक्ष्य तटस्थविपणौ स्थितम् ॥६५॥ निरुध्य टिंबिकासन्ने गजप्रसरमंकुशात् । किंचिद्भणिष्यतेत्याह प्रोवाच प्रभुरप्यथ ॥६६॥ कारय प्रसरं सिद्धहस्तिराजमशंकितम् ।। त्रस्यंतु दिग्गजाः किं तैर्भूस्त्वयैवोद्धृता यतः ॥ ६७ ।। श्रुत्वेति भूपतिः प्राह तुष्टिपुष्टः सुधीश्वरः। मध्याह्न मे प्रमोदायागंतव्यं भवता सदा ॥६८॥ तत्पूर्व दर्शनं तस्य जज्ञे कुत्रापि स क्षणे । आनंदमंदिरे राज्ञा यात्राजयमभूत्प्रभोः॥६९॥ अन्यदा सिद्धराजोऽपि जित्वा मालवमंडलम् । समाजगाम तस्मै चाशिषं दर्शनिनो ददुः ॥ ७० ॥ तत्र श्रीहेमचंद्रोऽपि सूरिभूरिकलानिधिः।
उवाच काव्यमव्यग्रमतिश्रव्यनिदर्शनम् ॥ ७१ ॥ तथाहि-भूमि कामगवि स्वगोमयरसैरासिंच रत्नाकरा
मुक्तास्वस्तिकमातनुध्वमुडुप त्वं पूर्णकुंभो भव । धृत्वा कल्पतरोर्दलानि सरलैर्दिनवारणास्तोरणान्याधत्त स्वकरैर्विजित्य जगतीं नत्वेति सिद्धाधिपः ॥७२॥ व्याख्याविभूषिते वृत्ते वृत्ते इव विभोस्ततः। आजुहावावनीपालः सूरिं सौधे पुनः पुनः॥७३॥ अन्यदावंतिकोशीयपुस्तकेषु नियुक्तकैः। दर्श्यमानेषु भूपेन प्रैक्षि लक्षणपुस्तकम् ॥ ७४ ॥ किमेतदिति पप्रच्छ स्वाम्यपीति व्यजिज्ञपत् । भोजव्याकरणं ह्येतच्छन्दशास्त्र प्रवर्त्तते ॥ ७५ ॥ असौ हि मालवाधीशो विद्वच्चशिरोमणिः ।
शब्दालंकारदैवज्ञतर्कशास्त्राणि निर्ममे ॥ ७६ ॥ १H. वः.