________________
श्रीहेमचंद्रसूरिप्रबन्धः ।
३०१ चिकित्साराजसिद्धांततरुवास्तूदयानि च। . अंकशाकुनकाध्यात्मस्वप्नसामुद्रिकान्यपि ॥ ७७ ॥ ग्रंथानिमित्तव्याख्यानप्रश्नचूडामणीनिह । विवृत्तिचायसद्भावेऽर्थशास्त्रं? मेघमालया ॥ ७८ ॥ भूपालोऽथावदत्कि नास्मत्कोशे शास्त्रपद्धतिः । विद्वान्कोपि कथं नास्ति देशे विश्वेपि गूर्जरे ॥ ७९ ॥ सर्वे संभूय विद्वांसो हेमचंद्रं व्यलोकयन् । महाभत्त्या च राज्ञासावभ्यर्थ्य प्रार्थितः प्रभुः ॥ ८०॥ शब्दव्युत्पत्तिकृच्छास्त्रं निर्मायास्मन्मनोरथम् । पूरयस्व महर्षे त्वं विना त्वमत्र कः प्रभुः॥ ८१ ॥ संक्षिप्तश्च प्रवृत्तोऽयं समयेऽस्मिन् कलापकः। लक्षणं तत्र निष्पत्तिः शब्दानां नास्ति तादृशी॥८२॥ पाणिनेर्लक्षणं वेदस्यांगमित्यत्र च द्विजाः। अवलेपादसूयंति कोऽर्थस्तैरुन्मनायितैः ॥ ८३॥ यशो मम तव ख्यातिः पुण्यं च मुनिनायक । विश्वलोकोपकाराय कुरु व्याकरणं नवम् ॥ ८४ ॥ इत्याकाभ्यधात् सूरिहेमचंद्रः सुधीनिधिः। कार्येषु नः किलोक्तिर्वः स्मारणायैव केवलम् ॥ ८५ ॥ परं व्याकरणान्यष्टौ वर्त्तते पुस्तकानि च। तेषां श्रीभारती देवी कोश एवास्ति ते ध्रुवम् ॥ ८६ ॥ आनाययतु काश्मीरदेशात्तानि स्वमानुषैः। महाराजो यथा सम्यक् शब्दशास्त्रं प्रतन्यते ॥ ८७॥ इति तस्योक्तिमाकर्ण्य तत्क्षणादेव भूपतिः । प्रधानपुरुषान् प्रैषीद्वाग्देवीदेशमध्यतः॥ ८८॥ प्रवराख्यपुरे तत्र प्राप्तास्ते देवतां गिरम् ।। चंदनादिभिरभ्यर्य तुष्टुवुः पाठनस्तवैः॥ ८९॥ समादिक्षत्ततस्तुष्टा निजाधिष्ठायकान् गिरा। मम प्रसादवित्तः श्रीहेमचंद्रः सितांबरः ॥९०॥ ततो मृर्त्यतरस्येव मदीयस्यास्य हेतवे। समर्प्य प्रेष्यतां प्रेष्यवर्गः पुस्तकसंचयम् ॥९१॥ ततः सत्कृत्य तान्सम्यग्भारती सचिवानरान् । पुस्तकान्यर्पयामासुः प्रैषुश्चोत्साहपंडितम् ॥९२॥ अचिरान्नगरं स्वीयं प्रापुर्दैवीप्रसादिताः। हर्षप्रकर्षसंपन्नपुलकांकुरपूरिताः॥९३॥ १ Hघे कांडं. २ P करेवि० ३ P खामीत्तेपि. ४ Pऽर्थशास्त्रं.
26