________________
३०२
प्रभावकचरिते सर्व विज्ञापयामासुर्भूपालाय गिरोदिताः। निष्टानिष्टे प्रभौ हेमचंद्रे तोषमहादरम् ॥ ९४ ॥ इत्याकर्ण्य चमत्कारं धारयन् वसुधाधिपः। उवाच धन्यो मद्देशोऽहं च यत्रेदृशः कृती ॥९५॥ श्रीहेमसूरयोऽप्यत्रालोक्य व्याकरणव्रजम् । शास्त्रं चक्रुर्नवं श्रीमत्सिद्धहेमाख्यमद्धतम् ॥ ९६॥ द्वात्रिंशत्पादसंपूर्णमष्टाध्यायमुणादिमत् ।। धातुपारायणोपेतं रंगल्लिंगानुशासनम् ॥ ९७ ॥ सूत्रसद्वत्तिमन्नाम मालानेकार्थसुंदरम् । मौलिं लक्षणशास्त्रेषु विश्वविद्वद्भिरादृतम् ॥९८॥
त्रिभिर्विशेषकम् ॥ आदौ विस्तीर्णशास्त्राणि नहि पाठ्यानि सर्वतः। आयुषा सकलेनापि पुमर्थस्खलनानि तत् ॥ ९९ ॥ संकीर्णानि च दुर्बोधदोषस्थानानि कानिचित् । एतत्प्रमाणितं तस्माद्विद्वद्भिरधुनातनैः ॥ १०० ॥ मूलराजप्रभृतिभी राजपूर्वजभूभृताम् । वर्णवर्णनसंबद्धं पादांते श्लोकमेककम् ॥ १०१ ॥ तच्चतुष्कं च सर्वांते श्लोकैस्त्रिंशद्भिरद्भुतम् । पंचाधिकैः प्रशस्तिश्च विहिता विहितैस्तदा ॥१०२॥ युग्मम् ॥ राज्ञः पुरपुरोगैश्च विद्वद्भिर्वाचितं ततः। चक्रे वर्षत्रयं वर्षे राज्ञा पुस्तकलेखने ॥ १०३॥ राजादेशान्नियुक्तैश्च सर्वस्थानभ्य उद्यतैः । तदा चाहूय सच्चके लेखकानां शतत्रयम् ॥ १०४॥ पुस्तकाः समलेख्यंत सर्वदर्शनिनां ततः। प्रत्येकमेवादीयंताध्यतृणामुद्यमस्पृशाम् ॥ १०५॥ विशेषकम् ॥ अंगवंगकलिंगेषु लाटकर्णाटकुंकणे । महाराष्ट्रसुराष्ट्रासु वत्से कच्छे च मालवे ॥१०६॥ सिंधुसौवीरनेपाले पारसीकमुरंडके । गंगापारे हरिद्वारे काशिचेदिगयासु च ॥ १०७॥ कुरुक्षेत्रे कन्यकुब्जे गौडश्रीकामरूपयोः। सपादलक्षवजालंधरे च खसमध्यतः ॥ १०८ ॥ सिंहलेऽथ महाबोधे बोडे मालवकौशिके । इत्यादिविश्वदेशेषु शास्त्रं व्यस्तार्यत स्फुटम् ॥ १०९ ॥
__ चतुर्भिः कलापकम् ॥ अस्य सोपनिबंधानां पुस्तकानां च विशंतिः।। प्राहीयंत नृपेंद्रेण काश्मीरेषु महादरात् ॥ ११० ॥