________________
श्रीहेमचंद्रसूरिप्रबन्धः ।
एतत्तत्र गतं शास्त्रं स्वीयकोशे निवेशितम् । सर्वो निर्वाहयेत्तेनादृतं देव्यास्तु का कथा ॥ १११ ॥ काकलो नाम कायस्थः कुलकल्याणशेखरः । अष्टव्याकरणाध्येता प्रज्ञाविजितभोगिराट् ॥ ११२ ॥ प्रभुस्तं दृष्टमात्रेण ज्ञाततत्वार्थमस्य च । शास्त्रस्य ज्ञापकं चाशु विदधेऽध्यापकं तदा ॥ ११३ ॥ प्रतिमासं स च ज्ञानपंचम्यां प्रच्छनां दधौ । राजा च तत्र निर्व्यूढान् कंकणैः समभूषयत् ॥ ११४ ॥ निष्पन्ना अत्र शास्त्रे च दुकूलस्वर्णभूषणैः । सुखासनातपत्रैश्च ते भूपालेन नियोजिताः ॥ ११५ ॥ अन्यदा सत्प्रभोस्तस्य सभायां स्वः पतेरिव । विशुर्द्धव्रातरोचिन्यामेकश्चारण आययौ ॥ ११६ ॥ अवज्ञया न कोप्यत्र संमुखं तस्य वीक्षते । रत्नेषु वीक्ष्यमाणेषु जरतृणमणेरिव ॥ ११७ ॥ अथ चासावपभ्रंशादपाठीद्दोहकं वरम् । तत्पुण्यदोहदं ब्राह्मी प्रसादं प्रकटं ननु ॥ ११८ ॥ तथाहि - हेमसूरि अच्छाणिते ईसरजे पंडिया ।
लच्छिवाणि महुकाणि सांपइभागी मुह मरूम् ॥ ११९ ॥ तारमुक्तेऽस्य पूर्वाह्नौ नाम्ना पूज्य प्रजल्पनात् । अवज्ञाकृतिनोऽभूवन् सभ्यानां कोपतो दृशः ॥ १२० ॥ मांजिष्ठाः सावधानेषु तेषु तस्य पदत्रयम् । उवाच चारणस्तश्च श्रुत्वा ते पुलकं दधुः ॥ १२१ ॥ युग्मम् ॥ अचिंतयंश्च वाण्यस्य चमत्कारकृदुन्नता ।
बुधस्य हि स्थितिर्यत्र तस्य स्यान्महिमा गुरोः ॥ १२२ ॥ ऊचुर्मुदा ते संभूय पुनः पठ पुनः पठ । पठिते प्रभवो वोचन्निः क्षोभस्त्रिः पुनः पठ ॥ १२३ ॥ चतुः कृत्वोपि पाठे तु मतं कृतिभिरादरात् । कोपाभासमिवाविभ्रद्विचाराच्चारणोऽवदत् ॥ १२४ ॥ यूयं यथेष्टदातारो यदि तत्स्वानुमानतः । गृह्णाम्यहं गुरुं भारं वाहीक इव दुर्वहम् ॥ १२५ ॥ त्रिपाठे दोहकस्यास्य यल्लब्धं तेन मे धृतिः । नैवाधिकेन कार्य मे प्रत्युताहितहृद्भुजा ॥ १२६ ॥
३०३
१ P. पृच्छनां. २ निर्व्यूहान्. ३ H. विबुध. ४H. जर तृण. ५ P. मुक्तेश्च.