________________
३०४
प्रभावकचरिते
तस्यायुतत्रयं पूज्याः सभ्यपाछंददापयन् । स ऊचे मे धनं पूर्णमासप्तपुरुषावधि ॥ १२७॥ अहं प्रतिग्रहं गृह्णे न वातोऽभ्यधिकं किल । इत्युक्त्वा प्रययौ सोऽथ प्रदेशं स्वसमीहितम् ॥ १२८ ॥ राज्ञा श्रीसिद्धराजेनान्यदा-युयुजे प्रभुः। भवतां कोऽस्ति पट्टस्य योग्यः शिष्यो गुणाधिकः ॥ १२९ ॥ तमस्माकं दर्शयत चित्तोत्कर्षाय मामिव । अपुत्रमनुकंपार्ह पूर्वे त्वां मास्म शोचयन् ॥ १३० ॥ आह श्रीहेमचंद्रश्च न कोप्येवं हि चिंतकः। आद्योप्यभूदिलापालः सत्पात्रांभोधिचंद्रमाः ॥ १३१ ॥ सज्ञानमहिमस्थैये मुनीनां किं न जायते । कल्पद्रुमसमे राशि त्वयीशि कृतस्थितौ ॥ १३२ ॥ अस्त्यामुष्यायणोरामचंद्राख्यः कृतिशेखरः । प्राप्तरेखः प्राप्तरूपसंघे विश्वकलानिधेः ॥ १३३ ॥ अन्यदादर्शयंस्तेऽमुं क्षितिपस्य स्तुतिं च सः ।
अनुक्तामाद्यविद्वद्भिहल्लेखाधायिनी व्यधात् ॥ १३४॥ तथाहि-मात्रयाप्यधिकं किंचिन्न सहते जिगीषवः ।
इतीव त्वं धरानाथ धारानाथ ममाकृथाः ॥ १३५ ॥ शिरोधूननपूर्व च भूपालोत्र दृशं दधौ । रामे वामेतराचारो विदुषां महिमस्पृशाम् ॥ १३६ ॥ एकदृष्टिर्भवान् भूयाद्वत्स जैनेंद्रशासने । महापुण्योयमाचार्यो यस्य त्वं पदरक्षकः ॥ १३७॥ इत्युक्त्वा विरते राज्ञि रामस्यादुपदेशकम् ? । नेत्रदृष्टिहि दुर्घष्या सुकृतातिशयस्पृशाम् ॥ १३८ ॥ उपाश्रयाश्रितस्यास्य महापीडापुरःसरम् । व्यनशद्दक्षिणं चक्षुर्नरत्नमनुपद्रवम् ॥ १३९ ॥ कर्मप्रामाण्यमालोच्य ते शीतीभूतचेतसः। स्थितास्तत्र चतुर्मासीमासीनास्तपसि स्थिरे ॥ १४० ॥ चतुर्मुखाख्यजैनेंद्रालये व्याख्यानमद्भुतम् । श्रीनेमिचरितस्यामी श्रीसंघाने प्रतुष्टुवुः ॥ १४१ ॥ सुधासारवचःस्तोमाकृष्टमानसवासनाः। शुश्रूषवः समायांति तत्र दर्शनिनोऽखिलाः॥१४२॥ पांडवानां परिव्रज्याव्याख्याने विहितेऽन्यदा । ब्राह्मणा मत्सराध्माता व्याचख्युर्नृपतेरिदम् ॥ १४३॥
अस्तष्पदेककं.
प्राही