________________
श्रीहेमचंद्रसूरिप्रबन्धः।
३०५
स्वामिन् पुरा महाव्यासः कृष्णद्वैपायनोऽवदत् । वृत्तं युधिष्ठिरादीनां भविष्यज्ज्ञानतोद्भुतम् ॥ १४४ ॥ तत्रेदमुच्यते स्वायुःप्रांते पांडोः सुता अमी। हिमानिमहिते जग्मुहिमवद्धधराध्वनि ॥ १४५॥ श्रीकेदारस्थितं शंभु स्नानपूजनपूर्वकम् । आराध्य परया भक्त्या स्वांताःस्वांतमसाधयन्॥१४६॥युग्मम् ॥ . अमी श्वेतांबराः शूद्रा विद्रुतस्मृतिसूक्तयः। तदुक्तवैपरीत्यातिजल्पंति निजपर्षदि ॥ १४७ ॥ अनौचित्यकृताचाराः पुरे तेऽरिष्टमित्यदः। भूभृता रक्षणीयाश्च दुराचाराः प्रजाकृताः॥१४८॥ विचार्य हृदि कार्याणि विचारक विधेहि तत् । इत्युक्त्वा विररामासौ द्विजव्यूहोऽतिधीरगीः ॥ १४९ ॥ राजाप्याह न भूपाला अविमृश्य विधायिनः। दर्शनानां तिरस्कारमविचार्य न कुर्वते ॥ १५०॥ अनुयोज्या अमी चात्र दद्युश्चेत्सत्यमुत्तरम् । तन्मे गौरविता एव न्याय एवात्र नः सुहृत् ॥ १५१ ॥ हेमाचार्योपि निर्ग्रथः संगत्यागी महामुनिः। असूनृतं कथं ब्रूयाद्विचार्य तदिदं बहु ॥ १५२ ॥ एवं भवत्विति प्रोचुः प्रवीणा ब्राह्मणा अपि ।। आजुहाव ततो राजा हेमचंद्रं मुनीश्वरम् ॥१५३ ॥ अपृच्छदथ माध्यस्थ्यात् सर्वसाधारणो नृपः। शास्त्रे च अर्हती दीक्षा गृहीता पांडवैः किमु ॥ १५४॥ सूरिरप्याह शास्त्रे न इत्यूचे पूर्वसूरिभिः। हेमाद्रिगमनं तेषां महाभारतमध्यतः ॥ १५५ ॥ परमेतन्न जानीमो येन शास्त्रेषु वर्णिताः । त एव व्यासशास्त्रेपि कीर्त्यतेऽथ परेऽपरे ॥१५६॥ राजाह तेऽपि बहवः पूर्व जाताः कथं मुने । अथावोचहुरुस्तत्र श्रूयतामुत्तरं नृप ॥१५७॥ व्याससंदर्भिताख्याने श्रीगांगेयः पितामहः। युद्धप्रवेशकालेऽसावुवाच स्खं परिच्छदम् ॥ १५८ ॥ मम प्राणपरित्यागे तंत्र संस्क्रियतां तनुः । न यत्र कोपि दग्धः प्राग्भूमिखंडे सदा शुचौ ॥ १५९ ॥ विधाय न्याय्यसङ्ग्रामं मुक्तप्राणे पितामहे ।। विमृश्य तद्वचस्तंगमुत्पाद्यास्य ययुर्गिरौ ॥१६०॥ १H. चार्हता. २ H. स्तत्र.
TENTATIVE