________________
३०६
प्रभावकचरिते अमानुषप्रचारे च शृङ्गे कुत्रापि चोन्नते।
अमुञ्चन्देवतावाणी क्वापि तत्रोद्ययौ तदा ॥ १६१ ॥ तथाहि अत्र भीष्मशतं दग्धं पाण्डवानां शतत्रयम् ।
द्रोणाचार्यसहस्रन्तु कर्णसंख्या न विद्यते ॥ १६२ ॥ एतद्वयमिहाकर्ण्य विमृशामः स्वचेतसि । वहूनां मध्यतः केपि चेद्भवेयुर्जिनाश्रिताः ॥ १६३॥ गिरौ शत्रुजये तेषां प्रत्यक्षाः सन्ति मूर्तयः। श्रीनासिक्यपुरे सन्ति श्रीमच्चन्द्रप्रभालये ॥ १६४ ॥ केदारे च महातीर्थ कोपि कुत्रापि तद्रतः। बहूनां मध्यतो धम्म तत्र ज्ञानं ततः स्फुटम् ॥ १६५॥ स्मार्ता अप्यनुयुज्यन्तां वेदविद्याविशारदाः। ज्ञानं कुत्रापि चेद्गङ्गा नहि कस्यापि पैतृकी ॥ १६६ ॥ राजा श्रुत्वाह तत्सत्यं वक्ति जैनर्षिरेव यत् । अत्र ब्रूतोत्तरं तथ्यं यद्यस्ति भवतां मते ॥ १६७ ॥ अत्र कार्ये हि युष्माभिरेकं तथ्यं वचो ननु । अजल्पि यद्विचाय्र्यैव कार्य कार्य क्षमाभृता ॥ १६८ ॥ तथाहमेव कायेऽत्र दृष्टान्तः समदर्शनः। समस्तदेवप्रासादसमूहस्य विधापनात् ॥ १६९ ॥ उत्तरानुदयात्तत्र मौनमाशिश्रियंस्तदा । स्वभावे जगतो नैव हेतुःकश्चिन्निरर्थकः ॥ १७० ॥ राज्ञा सत्कृत्य सूरिश्चाभाष्यत स्वागमोदितम् । व्याख्यानं कुर्वतां सम्यग् दूषणं नास्ति वोण्वपि ॥ १७१ ॥ भूपेन सत्कृतश्चैवं हेमचन्द्रप्रभुस्तदा। श्रीजैनशासनव्योम्नि प्रचकाशे गभस्तिवत् ॥ १७२ ॥ राज्ञः सौवस्तिकोऽन्येधुराभिगाख्यो वृथारुषम् ।। वहन् जजल्प सूरिं तं निविष्टं राजपर्षदि ॥ १७३॥ धर्मे वः शमकारुण्यशोभितं न्यूनमेककम् । व्याख्याने कृतशृङ्गारास्त्रिय आयान्ति सर्वदा ॥ १७४॥ भवन्निमित्तमकृतं प्रासुकं ददते च ताः । विकारसारमाहारं तद्ब्रह्म व स्थितं हि वः ॥ १७५ ॥ यतः-विश्वामित्रपराशरप्रभृतयो ये चाम्बुपत्राशना
स्तेपि स्त्रीमुखपङ्कजं सललितं दृष्ट्वैव मोहं गताः ॥ आहारं सुदृढं (सघृतं) पयोदधियुतं ये भुञ्जते मानवास्तेषामिन्द्रियनिग्रहो यदि भवेद्विन्ध्यः प्लवेत्सागरे ॥ १७६ ॥