________________
श्रीहेमचंद्रसूरि प्रबन्धः ।
३०७ अथ सूरिरुवाचात्र नेदं विद्वजनोचितम् । अविमृश्य पुरस्कारं वचः शुचिपुरोहितः ॥ १७७ ॥ .यतो विचित्रा विश्वेस्मिन् प्राणिनां चित्तवृत्तयः।
पशूनामपि चैतन्यवतां नृणान्तु किम्पुनः॥ १७८ ॥ यतः--सिंहो बली हरिणशूकरमांसभोजी
सम्वत्सरेण रतिमेति किलैकवारम् । पारावतः खरशिलाकणभोजनोपि ।
कामी भवत्यनुदिनं बत कोऽत्र हेतुः॥१७९ ॥ श्रुत्वेति भूपतिः प्राहातिसाहसमिदंनृणाम् । य उत्तराय नालं स्यात्स यद्वदति पर्षदि ॥ १८०॥ इति भूपालसन्मान्यो वदान्यः सुकृतार्थिनाम् । श्रीहेमसूरिः संजज्ञे संघोद्धारधुरन्धरः ॥ १८१ ॥ अथान्यदा महाविद्वान् श्रीभागवतदर्शिनी। देवबोधाख्यरासी (आसीन्) क्रामिकसारखतोत्तरः ॥१८२॥ आजगाम धियां धामाणहिल्लपुरमध्यतः। व्यजिज्ञपनियुक्ताश्च श्रीसिद्धाधिपतेः पुरः॥१८३ ॥ ततः श्रीपालमामन्य कविराज नराधिपः। रहो मन्त्रयतेऽस्मासौ प्रतिपन्नं सहोदरम् ॥ १८४ ॥ देवबोधो महाविद्वान् द्रष्टव्योसौ कथं हि नः। निस्पृहत्वादनागच्छन् सभायां तपसोर्जितः ॥१८५॥ आत्मदेशे परो विद्वानागतो यन्न पूज्यते। तत्षणमात्मनः केन निर्यमपकीर्तिकृत् ॥ १८६॥ अथाह कविराजोपि विद्वानाडम्बरी च यः। स कथं निस्पृहो लक्ष्मी विनापरिकरः करम् ॥ १८७ ॥ सा विद्वद्वल्लभैर्युष्मादृशैर्भूपैर्भवेदिह । दत्तैव नापरः कश्चिदुपायोस्याःसमर्जने ॥ १८८॥ परं श्रीभारतीभक्त्यात्यादरः स्वामिनो यदि। तत्सुधर्मासधर्मायां पर्षद्याहूयतामसौ ॥१८९ ॥ अस्त्वेवमिति राज्ञोक्ते प्रधानपुरुषास्ततः। प्राहीयंत ततस्तेनाभिहितास्ते मदोद्धतम् ॥ १९० ॥ आह्वानायागता यूयं मम भूपतिदेशतः। भूपालैः किं हि नः कार्य स्पृहाविरहितात्मनाम् ॥ १९१॥ तथा काशीश्वरं कान्यकुब्जाधीशं समीक्ष्य च। गणयामः कथं स्वल्पदेशं श्रीगूर्जरेश्वरम् ॥ १९२॥