________________
प्रभावकचरिते
परमस्मद्दिक्षायै भवतां स्वामिनस्तदा ।
उपविष्टः क्षितौ सिंहासनस्थं मां स पश्यतु ॥ १९३ ॥ एवं विसर्जितास्तेन यथावृत्तं व्यजिज्ञपत् । कविराजं नृपः प्राह तद्वाचातिचमत्कृतः ॥ १९४ ॥ विना जैनमुनीन् शान्तान् को न नामावलिप्तधीः । तारतम्याश्रिते ज्ञाने कोवकाशो मदस्य तत् ॥ १९५ ॥ द्रष्टव्यमिदमप्यस्य चेष्टितं कौतुकात्ततः । सश्रीपालस्ततो भूपोन्यदागच्छत्तदालये ॥ १९६ ॥ सिंहासनं स्वमद्राक्षीद्दिद्वद्वृन्दनिषेवितम् । मृगेन्द्रमिव दुर्धर्षे देवबोधं कवीश्वरम् ॥ १९७ ॥ दृढभक्त्या नमश्चक्रे राजा विनयवामनः । गुणपूर्ण सतां चित्ते नावकाशो मदस्य यत् ॥ १९८ ॥ प्रत्यक्षविश्वरूपं तं विश्वरूपवराशिषा | अभिनन्द्यावदत्पाणिसंज्ञयादर्शयद्भुवम् ॥ १९९ ॥ अत्रोपविश्यतां राजन् श्रुत्वेति क्ष्मापतिस्ततः । श्रीश्रीपालकृतं काव्यमुवाच प्रकटाक्षरम् ॥ २०० ॥ ‘यतः’-इहहि वसति मेरुः शेखरो भूधराणा
मिह विनिहितभाराः सागराः सप्त चान्ये । इह महिपतिदम्भस्तम्भसंरम्भधीरम्
३०८
धरणितलमिहैव स्थानमस्मद्विधानाम् ॥ २०१ ॥ इत्युक्त्वा च प्रतीहारः पटास्तृतधरातले । उपाविशद्विशां नाथः प्रमाथो दोषविद्विषाम् ॥ २०२ ॥ पर्षदोनुचितः कोयमिति हस्तेन दर्शिते । कविराजे नृपोवादीदनादीनवगीर्भरः ॥ २०३ ॥ एकोहं विहितस्फीतप्रबन्धोऽयं कृतीश्वरः । कविराज इतिख्यातः श्रीपालो नाम भूमिभूः ॥ २०४ ॥ श्रीदुर्लभसरोराजस्तथा रुद्रमहालये । अनिर्वाच्यरसैः काव्यैः प्रशस्तीरकरोदसौ ॥ २०५ ॥ महाप्रबन्धचक्रेचे ( च ?) वैरोचनपराजयम् । विहस्य सद्भिरन्योपि नैवास्य तु किमुच्यते ॥ २०६ ॥ श्रुत्वेति स्मितमाधाय देवबोधकविर्जगौ । काव्यमेकं लसद्गर्वपर्वताधित्यकासमम् ॥ २०७ ॥ तथाहि शुक्रः कवित्वमापन्नः एकाक्षिविकलोपि सन् । चक्षुर्द्धयविहीनस्य युक्ता ते कविराजिता ॥ २०८ ॥