________________
श्रीहेमचंद्रसूरिप्रबन्धः।
३०९ अतिशीघ्र तथा गुम्फे भित्यन्तः पूरणाकृतौ ।
कोभिमानस्ततो धीमन्नेकमस्मद्वचः शृणु॥२०९ ॥ . 'तद्यथा' भ्रातामकुविन्दकन्दलयता वस्त्राण्यमूनि त्वया
गोणीविभ्रमभाजनानि बहुशोप्यात्मा किमायास्यते । अप्येकं रुचिरं चिरादभिनवं वासस्तदा सूच्यते यन्नोज्झन्ति कुचस्थलात्क्षणमपि क्षोणीभृतां वल्लभाः॥२१०॥ समस्यां दुर्गमां कांचित्पृच्छतेति नृपोदिते ।
श्रीपाल ऊचिवाने स्फुटं शिखरणीपदम् ॥ २११ ॥ तच्च-कुरङ्गः किम्भृङ्गो मरकतमणिः किं किमशनि ॥
तत्पाठपृष्ठ एवासाववदत्कविनायकः।।
चरणतृतीय(त्रितयं)वृत्ते को विलम्बोत्र(स्त्व)मूदृशि॥२१२॥ तद्यथा-चिरं चित्तोद्याने चरसि च मुखाब्जं पिबसि च
क्षणादेणाक्षीणां विषयविषमुद्रां हरसि च । नृप त्वं मानादि दलयसि च किं कौतुककरः कुरङ्गः किंभृङ्गो मरकतमणिः किं किमशनिः॥२१३॥ गृहाण चैकं मत्पार्श्वे किंशब्दं व्यवहारतः । दौस्थ्यं यत्र भवेद्यस्याधमों न स तत्र किम् ॥ २१४ ॥ निगद्यन्ते समस्याश्चामूदृश्यो विषमार्थकाः । एकपादा द्विपादा च त्रिपदी च बुधोचिताः ॥ २१५॥ किं शब्दवहलास्त्वेताः शून्यप्रश्ननिभा नृप । सदृक्षा भणितेरस्य निद्या कोविदसम्पदाम् ॥ २१६॥
तथाहि
पौत्रः सोपि पितामहः। सहस्रशीर्षा पुरुषः सहस्राक्षःसहस्रपात् । नमः कर्पूरपूराभं । चन्द्रो विद्रुमपाटलः । कज्जलं क्षीरसङ्काशं।
वाचानुपदमेवासौताः पुपूरे कवीश्वरः।
सिद्धसारस्वतानां हि विलम्बकविता कुतः॥ २१७॥ 'ताश्च'-मूर्तिमेकां नमस्यामः शम्भोरम्भोमयीमिमाम् ।।
अब्जोत्पन्नतया यस्याः पौत्रः सोपि पितामहः॥ २१८॥ चलितश्चकितो भीतस्तव देव प्रयाणकः। सहस्रशीर्षा पुरुषः सहस्त्राक्षः सहस्रपात् ॥ २१९ ॥ नभः कर्पूरपूराभं चन्द्रो विद्रुमपाटलः । कज्जलं क्षीरसङ्काशं करिष्यति शनैः शनैः॥ २२०॥ इत्थं गोष्टया महाविद्वन् शिरः कम्पकृता तदा। कियंतमपि निर्वाह्य क्षण सौधं ययौ नृपः ॥ २२१ ॥ अन्यदा श्रीदेवसूरिजितवादक्षणे मुदा। दत्ते वित्ते नरेन्द्रेण लक्षसंख्ये तदुद्धृते ॥ २२२ ॥