________________
२२०
प्रभावकचरिते
दष्टं दर्शयतास्माकं प्रकाश्य क्षितिमध्यतः। जिनदेवस्तदाकर्ण्य श्मशाने तैः समं ययौ ॥६५॥ भुवमुत्खाय तस्मिंश्च दर्शिते गुरवोऽमृतम् । तत्त्वं स्मृत्वास्पृशन् देहं दष्टश्वासी समुत्थितः ॥६६॥ गुरुपादौ नमस्कृत्य पद्मः पद्मनिभाननः। प्राहाहं गुरवः स स्वजनाः कथमिहागमन् ॥ ६७॥ प्राग्वृत्ते कथिते सद्यो जिनदेवेन हर्षितः । उत्सवाहरुभिः सार्ध स खं निलयमागमत् ॥ ६८॥ तत्पित्राभ्यर्थिताः पूज्या निजमाश्रममाययुः। गुरुर्वेश्मागतश्चोपकर्ता प्राप्येत केन सः॥ ६९॥ अथ प्रमाणशास्त्राणि शिष्यान् द्वात्रिंशतं तदा। अध्यापयंति श्रीशांतिसूरयश्चैत्यसंश्रिताः॥ ७० ॥ सूरिः श्रीमुनिचंद्राख्यः श्रीनट्टलपुरादगात् । अणहिल्लपुरे चैत्यपरिपाटीविधित्सया ॥ ७१ ॥ संपत्संपत्तिरम्यश्रीसंपर्कश्रीजिनालये। नत्वा श्रीवृषभं सूरिवृषभं प्राणमत्ततः॥७२॥ प्रमेया दुःपरिच्छेद्या बौद्धतर्कसमुद्भवाः। तेनावधारिताः सर्वेऽन्यप्रज्ञानवगाहिताः ॥ ७३ ॥ अपुस्तकः स ऊर्ध्वस्थो दिनानां च दशाशृणोत् । तत्रागत्य तदाध्यायध्यानधीरमनस्तदा ॥ ७४॥ बहुशः कथ्यमानेपि प्रमेये दुर्घटेऽन्यदा। छात्रेष्वनधिगच्छत्सु पूज्या निवेदमागमन् ॥ ७५॥ भस्मनि हुतमित्युक्त्वा गुरवोऽत्र निशश्वसुः। तदा श्रीमुनिचंद्राख्यः सूरिः पूज्यान् व्यजिज्ञपत् ॥ ७६॥ सपुस्तकाः पाठका ये प्रष्ठप्रज्ञावतोन्नताः। किं वदंति त एवात्र पुरा गुरुपुरस्कृताः॥ ७७ ॥ अपरो बहिरायातः सर्वथानुपलक्षितः। सोऽपि किं लभते वक्तुं नवेत्यादिशत प्रभो ॥ ७८॥ श्रुत्वेति हृच्चमत्कारि तद्वचः प्रभवोऽवदन् । प्रज्ञायां पक्षपातो नः शिष्याणां नान्यहेतुषु ॥ ७९ ॥ इतोऽह्नि षोडशेऽतीते यद् व्याख्यातं सुदुर्घटम् । अस्माभिस्तदभिप्रायादद्योक्तं सुविवेचनम् ॥ ८०॥ निशमय्येत्यसौ प्राज्ञस्तदतीतदिनावधिः ।
सर्वेष्वहस्सु यच्चोक्तं तदनूद्य यथातथम् ॥ ८१॥ १ P. दिनान्पं० D दिनानाच. २D P. भसिते.