________________
श्रीशान्तिसूरिप्रबन्धः।
२१९
लक्षांस्तत्संख्यया दत्वा द्रव्यस्याथ महीपतिः। तत आह्वास्त तत्कालं सिद्धसारस्वतं कविम् ॥४९॥ ततोऽनुययुस्ते तं स भीतो द्रव्यव्ययादतः। पंचकोटिव्ययप्राप्तौ वादिपंचशतीजये ॥ ५० ॥ किंनामामुष्य जैनर्षेर्धनपालस्ततोऽब्रवीत् । शांतिरित्यभिधा सूरेरस्य शुद्धेति भूपतिः ॥५१॥ शांतिनाम्ना प्रसिद्धोऽस्ति वेतालो वादिनां पुनः । ततो वादं निषेध्यासौ संमान्यातः प्रहीयते ॥५२॥ तत्कथाशोधकत्वेन नामुमत्र विसूत्रये । अन्यथा मत्सभा जित्वा को यात्यक्षतविग्रहः॥५३॥ स्युः पंचदशलक्षेण सहस्रा गूजरावनेः।। एवमंकेऽथ तज्जशे लक्षद्वादशकं ततः॥ ५४॥ तथा षष्टिसहस्राश्च मया दत्तास्ततोऽधुना । कथा शोधयितव्याशु धनपालधियां निधेः॥५५॥ पर्यालोच्येति तेनाथ स्थापिताः शांतिसूरयः । लादशभिस्तत्र देवो चैत्यानचीकरत् ॥५६॥ अवशिष्टाश्चतुःषष्टिः सहसा भूपदत्ततः। धारापद्राभिधद्रंगे प्रहिताः प्रभुभिस्तदा ॥ ५७ ॥ तत्रस्थादिप्रभोश्चैत्ये मूलनायकवामतः। तैर्देवकुलिकाकारिसशालश्च रथो महान् ॥ ५८॥ कथा च धनपालस्य तैरशोध्यत निस्तुषम् । वादिवेतालविरुदं सूरीणां प्रददे नृपः ॥ ५९॥ कवीश्वरानुयाताश्च गूर्जरेशपरावधिः। प्रत्यावृत्त्याथ ते प्रापुः पत्तनं श्रीनिकेतनम् ॥.६०॥ अग्रे च तत्र वास्तव्यजिनदेवस्य धीमतः। श्रेष्ठिनस्तनयः पद्मनामा दष्टो महाहिना ॥ ६१ ॥ मांत्रिकैः सर्वपक्षीयमंत्रौषधविजूंभितैः। अत्यर्थं प्रतिकारेषु कृतेष्वपि न सजितः ॥ ६२॥ तत उत्पाद्य गर्तायां निक्षिप्तः स्वजनैः सह । सर्पदष्टव्यवस्थायां पुनरुज्जीवनाशयः ॥ ६३॥ इति विज्ञापिते शिष्यैर्जिनदेवगृहेऽगमत् । संबोधनार्थमाचख्युरथ ते प्रभवस्तदा ॥ ६४॥
१D तं. २P धेः D यिः.