________________
२१८
प्रभावकचरिते सिंहासनमलंचक्रे गुरुभिस्तावदाशु तैः। अपरो मातृकापाठोचितशिष्यस्तथोच्यत ॥ ३२॥ इदानीं किं कृतं वत्स स्तंभावष्टंभिना त्वया । स प्राहानेन यत्प्रोक्तं तत्सर्वमवधारितम् ॥ ३३॥ वदेति प्रभुभिः प्रोक्ते निस्वानध्वानधीरगी। उज्जग्राहातिकुग्राहव्यूहसहरणाग्रहः ॥३४॥ श्रुत्वेति धनपालोपि चमत्कारातिपरितः। उवाच भारती किं नु प्राप्ता बालर्षिरूपतः॥ ३५॥ प्रेषयध्वं मया सार्धममुमेव धियां निधिम् । गुरुसंदेहसंदोहशैलदंभोलिविभ्रमम् ॥ ३६॥ अथ ते सूरयः प्रोचुः कालोऽस्य पठितुं ततः। क्लिष्टप्रमाणशास्त्राणि परग्रंथेष्वधीतिनः ॥ ३७॥ पात्रं चेच्छास्त्रपाथोधिर्वादिकल्लोलितं भवेत् । इत्याशानस्ततो नायमध्यायायतिरिच्यते ॥ ३८ ॥ सिद्धसारस्वतो विद्वानथोचे प्रभुभिधुवम् । देशः शृंगारणीयोऽयं मालवः स्वक्रमांबुजैः ॥ ३९ ॥ इत्याकर्ण्य प्रभुःप्रोचे चेनिबंधोऽयमत्र वः । आपृष्टव्यः सदा संघः प्रधानाचार्यसंगतः॥४०॥ ततस्तदनुमत्या तेऽवंतिदेशे व्यजीहरन् । हृताः श्रीभीमभूपालप्रधानैः सपरिच्छदैः ॥४१॥ पथि संचरतां तेषां निशि संगत्य भारती। आदेशं प्रददे वाचा प्रसादातिशयस्पृशा ॥४२॥ स्वस्य दर्शननिष्णाता ऊर्चे हस्ते त्वया कृते ।। चतुरंगसभाध्यक्षं विद्रविष्यंति वादिनः॥४३॥ सक्रोशं योजनं धारानगरीतः समागमत् । तस्य तत्र गतस्य श्रीभोजो हर्षेण संमुखः॥४४॥ एकैकवादिविजये पणः संविदधे तदा। मदीया वादिनः केन जय्या इत्यभिसंधितः॥४५॥ लक्षं लक्षं प्रदास्यामि विजये वादिनं प्रति । गूर्जरस्य बलं वीक्ष्यं श्वेतभिक्षोर्मया ध्रुवम् ॥ ४६॥ विश्वदर्शनवादींद्रान् स राज्ञः पर्षदि स्थितः। जिग्ये चतुरशीतिं च स्वस्वाभ्युपगमस्थितान् ॥४७॥ अजैषीदूर्ध्वहस्तेन प्रत्येकं प्रतिवासरम् । अनायासादसौ सारवक्ता न्यायैकनिष्ठधीः ॥४८॥
१D. P. पाथोधे.