________________
श्रीशान्तिसूरिप्रबन्धः ।
२१७ श्रीनाभेयं प्रणम्याथ चैत्ये तस्य गृहं ययुः। अर्थयांचक्रिरे भीमं धनदेवसमीपतः ॥ १५॥ कृतपुण्योऽस्मि मत्पुत्रश्चेत्पूज्यार्थप्रसाधकः। इत्युक्त्वा प्रददौ पुत्रममुत्रेह च शर्मणे ॥१६॥ एवं तैस्तदनुज्ञातैरदीक्ष्यत शुभे दिने । भीमो मिथ्यादृशां भीम उदग्रप्रतिभाबलः ॥१७॥ शांतिरित्यभिधा तस्य विधेयस्य व्यधीयत। स कलाः सकलाः प्राप पूर्वसंकेतिता इव ॥१८॥ समस्तशास्त्रपाथोधिपारदृश्वाऽभूत्क्रमात् । विचिंत्येति निजे पट्टे प्रभवस्तं न्यवेशयन् ॥ १९ ॥ खगच्छभारं विन्यस्य तत्र प्रायोपवेशनात् । प्रेत्यार्थ साधयामासुस्तेऽथ संसृतिसंहृतौ ॥ २०॥ अणहिल्लपुरे श्रीमद्भीमभूपालसंसदि। शांतिसूरेः कवींद्रोऽभूद्वादिचक्रीति विश्रुतः ॥२१॥ अन्यदावंघ्रिदेशीयः सिद्धसारस्वतः कविः। ख्यातोऽभूद्धनपालाख्यः प्रचेतस इवापरः ॥२२॥ स गोरसे यहातीते साधुभिर्जीवदर्शनात् । यैरबोध्यत तत्पूज्यश्रीमहेन्द्रा गुरोगिरा ॥२३॥ गृहीतदृढसम्पक्वः कथां तिलकमञ्जरीम् । कृत्वा व्यजिशपत् पूज्यान् क एनां शोधयिष्यति ॥ २४॥ विचार्य तैः समादिष्टं संति श्रीशांतिसूरयः। कथांते शोधयिष्यति सोऽथ पत्तनमागमत् ॥ २५॥ तदा च सूरयः सूरितत्त्वस्मरणतत्पराः। देवतावसरे ध्यानलीना आसन्मठांतरे ॥२६॥ प्रतीक्ष्याणां प्रतीक्षायामुपयुक्तः कवीश्वरः।
नूतनाध्ययनं शिष्यमेकमद्भुतमब्रवीत् ॥ २७ ॥ तथाहि-खचरागमने खचरो हृष्टः खचरणांकितपत्रधरः ।
खचरवरं खचरश्चरति खचरमुखि खचरं पश्य ॥ २८ ॥ इदं व्याख्याहि चेद्वेत्सि तत्तु पंडितमंडनः। इत्याकर्ण्य स च व्याख्यादिदं वृत्तमकृच्छ्रतः॥ २९ ॥ श्रुतेति स कविस्वामी प्राह हृष्ट इदं कियत् । श्रीशांत्याचार्यहस्तस्य प्रभावो बहुरीक्ष्यते ॥ ३०॥ उपन्यासं प्रतिष्ठायास्तत्र सर्वज्ञजीवयोः। ऊर्जस्विगर्जिपर्जन्यध्वनिना विदधे च सः॥३१॥ १ D प्रतीक्षाणा प्रतीक्ष्याया सु p० २ H चरं D चर.
19