SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २१६ प्रभावकचरिते कवित्वक्षोदाद्यामृतरुचिसखित्वं च मनुते । शुभध्यानोपायं परिहृतमदादिः स जयतु ॥ १६९ ॥ ग्रं० १६९ अ० ५ उभयं ३५११॥ इति श्रीवीरगणिप्रबंधः। अथ श्रीशांतिसूरिप्रबंधः. पातु वो वादिवेतालः कालो दुर्मत्रवादिनाम् । शांतिसूरिः प्रभुः श्रीमान् प्रसिद्धः सर्वसिद्धिदः॥१॥ व्याचिख्यासां तदाख्याने दधे तद्भक्तिभावितः । अनूरुः सूरसेवातः किं न व्योमाध्वजांघिकः॥२॥ अस्ति श्रीगूर्जरो देशः कैलासाद्रिनिभः श्रिया। धनदाधिष्ठितश्चारुमानसामानसंगमः॥३॥ अणहिल्लपुरं तत्र नगरं नगरप्रभम् । वचःप्रभुद्विजिह्वानां यत्र सद्वचनामृतैः॥४॥ श्रीभीमस्तत्र राजासीद्धृतराष्ट्रभवद्विषन् । सदाप्राप्तार्जुनश्रीको लोकोत्तरपराक्रमः ॥५॥ श्रीचंद्रगच्छविस्तारिशुक्तिमुक्ताफलस्थितिः । थारापद इति ख्यातो गच्छः स्वच्छधियांनिधिः॥६॥ सच्चारित्रश्रियां पात्रं सूरयो गुणभूरयः। श्रीमद्विजयसिंहाख्या विख्याताः संति विष्टपे ॥७॥ श्रीमत्संपकचैत्यस्य प्रत्यासन्नाश्रयस्थिताः। भव्यलोकारविंदानां बोधं विदधतेऽर्कवत् ॥ ८॥ तथा-श्रीपत्तनप्रतीचीनोलघुरप्यलघुस्थितिः। उन्नतायुरितिग्राम उन्नतायुर्जनस्थितिः ॥९॥ तत्रास्ति धनदेवाख्यः श्रेष्ठी श्रीमालवंशभूः। अहेहुरुपदवद्वसेवामधुकरः कृती ॥१०॥ धनश्रीरिव मूर्तिस्था धनश्रीस्तस्य गेहिनी। तत्पुत्रो भीमनामाभूत्सीमा प्रज्ञाप्रभावताम् ॥ ११ ॥ कंबुकंठच्छन्नमौलिराजानुभुजविस्तरः। छत्रपद्मध्वजास्तीर्णपाणिपादसरोरुहः ॥ १२ ॥ सर्वलक्षणसंपूर्णः पुण्यनैपुण्यशेवधिः। विज्ञातो गुरुभिः संघभारधौरेयतानिधिः॥ १३ ॥ अलंचक्रुर्विहारेण ग्राममग्राम्यबुद्धयः। तत्ते वितंद्रविज्ञानविज्ञातशुभसंभवाः ॥१४॥ १ D द्वारा P थारापद्रि० २ H प्रतीचीतो.
SR No.002357
Book TitlePrabhavak Charitam
Original Sutra AuthorN/A
AuthorHiranand M Sharmshastri
PublisherTukaram Javaji
Publication Year1909
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy