________________
श्रीवीरप्रबन्धः। पृष्टव्यश्च विचारोऽयं कस्यापि शमिनो मुनेः।। प्रात नमुनिं ग्राममध्यमागतमानमत् ॥ १५४ ॥ ततः पप्रच्छ संदेहं गुरुं विस्तरतोऽवदत् । जीवाः सर्वत्र तिष्ठति द्विधा स्थावरजंगमाः ॥ १५५ ॥ स्थावरास्ते धरानीरवह्निवातमहीरुहाः। जंगमाश्च परिशेयास्ते द्वित्रिचतुरिंद्रियाः॥१५६॥ पंचेद्रियाः सुरास्तिर्यग्नरनैरयिका अपि । गजमीनमयूराद्याः स्थलनीलांबरोपमाः॥१५७ ॥ वनस्पतिस्तथा जीवाधारो मूलफलादिके। उत्पद्यते विपद्यते यजीवास्तत्र भूरिशः॥१५८॥ धर्मः कृपैव जीवानां विवेकस्थ विचारय । इति संयमिनो वाचं स श्रुत्वा प्रत्यबुध्यत ॥ १५९ ॥ सर्व हित्वाग्रहीद्दीक्षामक्षीणश्रेयसे स च । शास्त्रेष्वधीतपूर्वी च जैनागममवाचयत् ॥ १६० ॥ महाविद्वान् स गीतार्थक्रियाज्ञानद्वयेप्यभूत् । प्रदीप इव दीपेन गुरुणा समदीधितिः॥१६१ ॥ शुतज्ञानात्परज्ञाय स्वायापर्यतमन्यदा। गच्छभारं च शिष्येशे भद्रे श्रीवीरसूरयः ॥१६२॥ श्रीचंद्रसूरिरित्याख्या पूर्वकं ते न्यवेशयन् । स्वयं तु योगरोधेन तस्थुनिष्कंपसंवराः ॥१६३ ॥ हित्वा देहं जरहमिव दिव्यभुवं ययुः। श्रीवीरप्रभवो बोधशक्तेराधारतां गताः॥१६४॥ वसुवह्निनिधी जन्म ९३८ व्रतं व्योमवसुग्रहे ॥९८०॥ इंद्रनंदग्रहे ९९१ वर्षेऽवसानमभवत्प्रभोः ॥ १६५ ॥
गार्हस्थ्यं समभूत्तस्य द्विचत्वारिशतं समाः। • एकादशवतेऽथायुत्रिपंचाशत्समा अभूत् ॥ १६६ ॥ श्रीवीरसूरेर्विदितं चरित्रं कर्णावतंसं कुरुतात्र संतः। उत्कंठिते श्रीजिनबोधिलक्ष्मीर्यथा महानंदसुखप्रबोधा ॥१६७॥ श्रीचंद्रप्रभसूरिपट्टसरसीहंसः प्रभः श्रीप्रभाचंद्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ वीरस्य वृत्तं प्रभोः श्रीप्रद्युम्नमुनींदुना विशदितः शृंगस्तिथीसंख्यया ॥ १६८ ॥ नवोऽयं प्रद्युम्नः शिवसहचरः प्रीतिमतुलां दौ संतोषाय प्रकटरिपवे यो रतिमपि ।