________________
प्रभावकचरिते समनोमंडलाश्रेयो वचःसिद्धिकुलालयः । वीरो गुरुश्च मंत्री च ममार्तीन्दुविधुन्तुदः ॥ १३७॥ एकश्चिंताज्वरोऽस्माकं महाबाधानिबंधनम् । श्रुत्वा प्रतिविधेहीदं कस्याने नास्य कथ्यते ॥ १३८ ॥ अथाह वीरमंत्रीश स्वामिन्नादिश्यतां मम । क्रियते भृत्यलेशेन किं मयान्यदधीशितुः॥१३९ ॥ राजाह मम शुद्धान्तकान्तानां संभवे सति । स्रावो भवति गर्भस्य तत्र प्रतिविधिं कुरु ॥ १४० ॥ इत्यादिष्टो महामात्यः श्रीमद्वीरप्रभोः पुरः। व्यनिशपत्ततः सूरिमूरीकृत्य स चाब्रवीत् ॥ १४१॥ अभिमंत्रितवासैमें क्रियतामभिषेचनम् । अवरोधपुरंध्रीणां प्रजायंते सुता यथा ॥ १४२॥ एवं च विहिते मंत्रिप्रभुणा वचने गुरोः । श्रीमद्वल्लभराजाद्या नरेंद्रस्याभवन् सुताः॥१४३॥ अष्टादशशतीदेशे विहरन्नन्यदा प्रभुः। आगादंबरिणी ग्राम्ये ग्राम्येतरनरान्विते ॥ १४४ ॥ विशुद्धोपाश्रये तत्र स्थितो गत्वा निशागमे । व्युत्सर्गाय बहिःप्रेतवनमाशिश्रिये मुदा ॥ १४५ ॥ परमारवराम्नायसद्वज्राकरहीरकः । रुद्राभिधः स तं दृष्टा नमश्चक्रेऽतिभक्तितः ॥ १४६॥ उवाच च मुने मास्थाः श्वपदावजसंकुले । श्मशाने ग्राममध्येन आगच्छ प्रासुकाश्रये ॥१४७॥ तिष्ठ सौख्यात्तदाकर्ण्य मुनिः प्राह गुरोः सदा । कायोत्सर्गे बहिः पृथ्व्यां कुर्वति प्रभवस्ततः ॥ १४८॥ आधेयानाधृती राजपुत्रः श्रुत्वेति सोगमत् । निजं धाम ततस्तस्या जंबूपायनमागमत् ॥ १४९ ॥ स सिखादयिषुर्जबूफलान्यत्रोटयत्तदा । वृतं तत्र कृमि दृष्ट्वा शंकया धूनयन् शिरः॥ १५० ॥ जगाद कृमयः सूक्ष्माः फलेष्वपि यदा भवेत् । अदृष्टं किमिव स्वाद्यं निशादौ हि विवेकिना ॥ १५१ ॥ आहूय ब्राह्मणैः पृष्टैः प्रायश्चित्तं प्रदेशितम् । विशुद्धये द्विजन्मभ्यो देयः स्वर्णमयः कृमिः॥ १५२॥ दध्यौ श्रुत्वेति संकल्प्य द्वितीयोपि कृमिर्मया । हंतव्यो नावगच्छामि ततो धर्मममुं हृदि ॥ १५३॥
१D. ग्राम