________________
श्रीवीरप्रबन्धः ।
२१३
द्वारपांचालिकाजानुपाश्चात्यशिखरांतरे । तस्थौ निलीय तत्रस्थदेवज्योतिरसासहिः ॥ १२० ॥ गव्यूतत्रितयोच्छ्रायं योजनायामविस्तरम् । चतुर्द्वारं महाचैत्यमाद्यचक्रिविधापितम् ॥ १२१ ॥ दृष्ट्वा प्रमाणवर्णैश्च प्रतिमास्ता यदोदितैः । एकैकस्मान्नमस्काराच्छ्रुत्वा स प्राणमन्मुदा ॥ १२२ ॥ प्रभावनाविधित्सायै तदभिज्ञानमानयत् ।
पंचशक्षत्पतान् तस्मादग्रहीन्नाकिढौकितान् ॥ १२३ ॥ निशायाः प्रथमे यामे चलितस्तीर्थयात्रया | प्राग्वत्स पुनराद्याच्च द्वितीये घटिकाधिके ॥ १२४ ॥ सौरभामोदतः शालेरक्षतानामुपाश्रयः । विमानमिव साधर्म सुमनः संवृतो बभौ ॥ १२५ ॥ पृष्ठे मुनिभिराहाथ गुरुरष्टापदाचले ।
वंदयध्वं मुदा देवान् श्राद्धाग्रे कथयंश्च तम् ॥ १२६ ॥ चैत्ये च मिलितः संघः श्रीमान्भूमिपतेः स च । आख्यापयन्महाश्चर्यं कौतुकादाययौ स च ॥ १२७ ॥ तेनाकार्यानुयुक्तोऽथाभिज्ञानं पुनराह च । चतुर्विंशतिसंख्यानां स्वभावाख्यानतोऽर्हताम् ॥ १२८ ॥ तथाहि वधउला बेसामला बेरत्तुप्पलवन्त ।
मरगयवन्नाविन्नजिणसोलसकंपणवन्ता ॥ १२९ ॥ नियनियमाणि हिंकारवियभरहिजिनयणाणंद । तेमईभाविहिं वंदियारा वउनु वी सजिणंद ॥ १३० ॥ राजाह स्वेष्टदेवानां स्वरूपकथने वरा । नास्ति प्रतीतिरस्माकमन्यत्किमपि कथ्यताम् ॥ १३१ ॥ अक्षतान् दर्शयामास तैः सामान्यगुणोदयान् । वर्णैः सौरभविस्तारैरपूर्वान्मानववजे ॥ १३२ ॥ ते द्वादशांगुलायामा अंगुलं पिंडविस्तरे । अवेद्यंत स्ववर्णेन महीपालेन ते ततः ॥ १३३ ॥ पूर्व तुरुष्कभंगस्य तेऽभूवंस्तदुपाश्रये । अपूज्यंत च संघेनाष्टापदप्रतिबिंबवत् ॥ १३४ ॥ एवं चातिशयैः सम्यक् सामान्यजन दुस्तरैः । श्रीमान् वीरगणिः सूरिर्विश्वपूज्यस्तदाभवत् ॥ १३५ ॥ अन्यदा मंत्रिणं वीरं रहः प्राह महीपतिः । पूर्वादिष्टक्रमान्याय्याद्राज्यं पालयतो मम ॥ १३६ ॥
१ PD निसा •