________________
२१२
प्रभावकचरिते त्वद्वचोभिः सुधासारसारैरित्यतिहर्षितः। प्रासादजगतीमध्ये जीवानां रक्षये वधम् ॥ १०३ ॥ श्रीवीरोप्याह भूयात्तद्राज्ञा ज्ञातमिदं वचः। आचंद्रकालिकं वृत्तमावयोः पुण्यहेतवे ॥ १०४॥ अणहिल्लपुरे चासीच्चक्रवर्ती च नूतनः। श्रीमान् चामुंडराजाख्यस्तत्रापि समये नृपः ॥ १०५॥ आज्ञापयदिदं च श्रीविरूपानाथ एव तत् । प्रधानस्तैर्नृपस्याथ हर्षात्तत्राययौ च सः॥ १०६॥ सत्कर्मणि चिकीर्षात्र कस्य नो महतेत्यसौ। विशाय जीवरक्षायै तच्छासनमचीकरत् ॥ १०७ ॥ आहूतश्च ततो राज्ञा पुनरप्याययौ तदा। अणहिल्लपुरं धीरस्तत्राबोधानबोधयत् ॥ १०८॥ आचार्यत्वप्रतिष्ठास्य विदधे परमर्षिभिः। सूरिभिर्वर्द्धमानाख्यैः संघाध्यक्षं महोत्सवात् ॥ १०९॥ तत्र श्रीवल्लभीनाथः श्रीवीरप्रभुभक्तितः। प्रत्यक्षीभूय धर्माख्यां शृणोत्यस्याग्रतः स्थितः ॥ ११०॥ , परं क्रीडाप्रियत्वेन नरं प्रेक्ष्य सलक्षणम् । अवतीर्यास्य देहे च क्रीडते पीडयाविना ॥ १११ ॥ श्रीमान् वीरोपि तदृष्ट्वावादीदेवं न सांप्रतम् । व्यंतराधीश ते केलिं मनुष्या असहिष्णवः ॥ ११२॥ एवं निववृते चासौ प्रभुणा स निषेधितः । तथाह मम तोषस्य फलं किमपि नात्र वः॥११३॥ उवाच पुनरानंदात्तव सामर्थ्यमस्ति किम् । अष्टापदाचले गंतुं श्रीजैनभवनोन्नते ॥ ११४॥ स देवः प्राह शक्तिों गन्तुं नावस्थितौ पुनः। तत्र सन्ति यतः सूरे व्यंतरेंद्रा महाबलाः ॥ ११५ ॥ अवस्थातुं न शक्नोमि तत्तेजः सोदुमक्षमः । याममेकं त्ववस्थास्ये बलवत्कौतुकं तव ॥ ११६ ॥ अधिकं तु क्षणं मित्र त्वमवस्थास्यसेऽथ चेत् । तत्तत्रैव भवानवागंता हंतुं ध्रुवं ह्यदः ॥११७॥ मुनौ तत्प्रतिपेदाने धवलं धवलं ततः। विकृत्यारोहयत्तं च वस्त्रवेष्टितमस्तकम् ॥ ११८ ॥ क्षणेनैव ययौ तस्य गिरेर्मूर्ध्नि स ऊर्द्धगः। वृषादुत्तारयामास चैत्यद्वारे ततो मुनिम् ॥ ११९ ॥
प्राह.
मह. सोमे