________________
२११
श्रीवीर प्रबन्धः ।
सोऽत्रागत्यामिलद्भीतो मम ब्राह्मणरूपतः ॥ ८५ ॥ प्राहेदं दारुणं क्षेत्रं पवित्रं दत्तमत्र च । महोदयाय तद्याचे दातुमीशो भवान्यदि ॥ ८६ ॥ मयोचेहं क्षमो दाने मार्गणानां यथेप्सितम् । घटमूटकटंकानां लक्षै राज्यान्नहेमसु ॥ ८७ ॥ ततोऽसौ ब्राह्मणोऽवोचन्मम किंचिद्ददख तत् । याचखेति मदुक्ते च स प्राह श्रूयतां ततः ॥ ८८ ॥ अत्र क्षेत्रे स्थिरो भूत्वावतिष्ठख महाबल । श्रुत्वेति ज्ञानतो यावदीक्षे तावत्स शंकरः ॥ ८९ ॥ आतंकात्सोमनाथाख्यं छलितुं मां समाययौ । वामनो बलिभूपालमिव वृद्धद्विजच्छलात् ॥ ९० ॥ दंड कमपि मे देहि यथा सत्यः प्रतिश्रवः । मम स्यादन्यथात्रापि स्थितस्तेस्मि व्यथावहः ॥ ९१ ॥ अथ स प्राह नाहंयुस्त्वय्यहं तद्वचः शृणु । मद्यात्रा तस्य पूर्णा स्याद्यस्तामद्य न पश्यति ॥ ९२ ॥ अन्यथार्द्धकला सा स्यादित्युक्त्वा स्वाश्रयं गतः । वर्त्ततेऽद्यापि तत्तादृग्मद्वचः कोपि लंघयेत् ॥ ९३ ॥ ततः प्रभृत्यसौ ग्रामः स्थिरमित्याख्ययाभवत् । मम शंभोश्च वाचां हि स्थिरता नहि दुर्लभा ॥ ९४ ॥ इति न स्खलिता शक्तिर्मम मर्त्यैः सुरैरपि । त्वं तु श्वेतांबराकारो दैवं मत्तोपि शक्तिमान् ॥ ९५ ॥ नावमंतुमहं शक्तः समीक्षे दूरतः स्थितः । रेखाकुंडं ज्वलत्वारं ? वदिदं शंकितः पुमान् ॥ ९६ ॥ तुष्टस्तव तपःशक्तेः वांच्छितं प्रार्थय द्रुतम् । अक्षेपात्पूरयिष्ये तत्कल्पवृक्ष इव ध्रुवम् ॥ ९७ ॥ पारयित्वा ततो वीरः परमेष्ठिनमस्कृतेः । जगादनादरा अत्र सर्वसंगमुचो वयम् ॥ ९८ ॥ तथापि किंचिन्मद्भक्तेर्गृहाणेत्युदितामुना । मुनिराह वधं रक्ष तवाप्यायुर्विनश्वरम् ॥ ९९ ॥ दुर्गतौ पतने हेतुर्मोलोयं प्राणिनां वधः । तथाख्यातैः पुरावृत्तैर्हर्षो मे नास्त्यहंकृतैः ॥ १०० ॥ महादानेषु सामर्थ्यमात्मनश्च त्वयोदितम् । जीवाभयप्रदानं च सर्वेभ्योप्युत्तमं पुनः ॥ १०१ ॥ हर्षादाह स तथ्यं ते वचो जानेऽहमप्यदः । स्वेच्छाचारी परीवारो मम तस्य प्रियं न्विदम् ॥ १०२ ॥
। P. च्वार ? H omits