________________
२१०
प्रभावकचरिते पूर्वास्थडक्वरीपुर्यामागतोऽहं शिवालये। भीमेश्वराख्ये तलिंगमप्रणम्यैव च स्थितः ॥ ६८ ॥ चरणौ तु जलाधारे न्यस्य सुप्तश्च तत्क्षणे । तत्रागत्य नृपोऽपृच्छन्मां स विस्मयमानसः॥ ६९॥ नमसि त्वं न किं देवमशानाच्छक्तितोऽथवा । तदावोचमहं राजन् हेतुं ते कथये स्फुटम् ॥ ७० ॥ शिवोयं शक्तिसंबद्धो मां दृष्ट्रा लजया नतः। भविष्यति यतो लज्जा पुंसः पुंसोऽग्रतोभवेत् ॥ ७१॥ एवं स्थितेपि देवेस्मिन्नमति प्राकृतो जनः। पशूपमे जने तस्य का व्रीडास्था ममापि च ॥ ७२ ॥ चित्ते कौतुकमत्रास्ति मत्प्रणामात्तदास्य चेत् । । उत्पातः कोपि जायेत तत्र दोषोपमोपि मे ॥ ७३॥ इत्युक्त्वा विरते मय्यब्रवीभूमिपतिस्ततः। वैदेशिका भवन्त्यत्र स्फारवाक्यक्रमाः सदा ॥ ७४॥ चर्मदेहः पुमान् देवसाम्यं स्वस्येह मन्यते । हास्यं स चेतनानां तद्वालानां विप्रलंभनम् ॥ ७५ ॥ या काचिदस्ति ते शक्तिस्तां प्रयुक्ष्व न ते पुनः। दोषोऽणुरपि कार्येऽत्र नगरं साक्षि वर्त्तताम् ॥ ७६ ॥ श्रुत्वेति प्रणतिं यावत्कुर्वे संगत्य संनिधौ । त्राकृत्य तावत् पुस्फोट लिंगं लोकस्य पश्यतः॥ ७७ ॥ अथाहमवदं भीतिसंभ्रमभ्रान्तलोचनम्। भूपालं बालवत्कंठरोधाव्यक्तस्वरं तदा ॥ ७८ ॥ मदुत्तेजनदंभेन त्वया वैरं प्रसाधितम् । लिंगेऽस्मिन्नर्चनक्लेशैर्दूनेन चिरकालतः ॥ ७९ ॥ श्रुत्वेति पादयोमौलिं मीलयित्वानुनीतिभूः । राजा सपरिवारोऽयमाह देवस्त्वमेव नः ॥ ८॥ तीर्थ त्वयैव दत्तं स्यादन्यथोच्छिन्नमेव तत् । शिवस्त्वमेव देहस्थः पाषाण इतरः पुनः ॥ ८१॥ एवमुक्तो योगपट्टेनावेष्टयमिदं न्वहम् । संबद्ध विदलं तत्र लिंगमद्यापि पूज्यते ॥ ८२॥ महाबोधे ततो बौद्धविहारशतपंचकम् । तान् विजित्य मया भग्नं तत्र सामर्थ्यतो निजात् ॥ ८३॥ तथा मम प्रतिज्ञास्ति संमुखं विजये ध्रुवम् । महाकालाख्यया शंभुभीत्या मे कोणके स्थितः ॥८४॥ सोमेश्वरजयाथै च चलित्वागममत्र च ।