________________
श्रीवीरप्रबन्धः ।
अभूदथ परीवारस्तस्य प्राचीनपुण्यतः । अबुद्धबोधने सैष नियमं चाग्रहीत्तदा ॥५१॥ विजहीर्षुर्गणिर्वीरोऽणहिल्लपुरसंमुखम् । आजगाम स्थिराग्रामे विरूपानाथसंश्रिते ॥५२॥ स चात्र बलभीनाथापराख्यो व्यंतराधिपः । रात्रौ देवगृहे सुप्तं हन्ति मत्र्य महारुषा ॥ ५३॥ तद्बोधाय महामातृपीठांतर्गणिविद्यया । अर्द्धतुर्यकरोन्मानकुंडं कृत्वा महोदयः॥ ५४॥ तत्रस्थैः स निषिद्धोऽपि महाशक्तिभरात्ततः। अस्थादस्थानमीदृक्षभयानामक्षतव्रतः॥ ५५॥ झंझादिवातवद्विघ्नानवजानन् सुराद्रिवत्। कायोत्सर्गस्थितः काये निष्प्रकंपो मनस्यपि ॥५६॥ उद्यत्किलकिलाशब्दै तिं बाह्ये स्वयं वदन् । आययौ बलभीनाथ आतंकं विदधजने ॥ ५७॥ व्यकार्षीद्धस्तिनः पूर्व जंगमानिव पर्वतान् । तमाश्रितान् सुरेद्रेण सह वैरभयादिव ॥ ५८॥ तस्य रेखा न लंघते मर्यादा सागरा इव । उन्नतावनतैः शुंडादंडैरुड्डामरा अपि ॥ ५९ ॥ ततः प्रसर्पतः सर्पान् सदानैक्षयत्तराम् । दृष्टिनिर्यद्विषज्वालान्भस्मीभूतान्यदेहिनः॥६०॥ तां रेखामनतिक्रम्य स्थितांस्तान्वीक्ष्य निर्जरः। विलक्ष्य इव दध्यौ स महिमास्य जनातिगः॥६१॥ ततो राक्षसरूपाणि भैरवाणि चकार सः। क्षोभाय तस्य नाभूवन्प्रतिकूलानि तान्यपि ॥ ६२॥ अनुकूलैरथारंभि मुमुक्षोर्विप्रलंभनम् । मातापिताकलत्राणि कंदंति समयैक्षयत् ॥ ६३॥ तत्वज्ञस्तान्यवाशासीन्मोहर्विध्यसकोन्नतेः। वीरे कुंभोद्भवेऽमुत्र दक्षिणां दिशमाश्रिते ॥६४॥ कुभावेपि सुराचाल्यः सत्ववीरतपोनिधिः। द्रष्टुं पूर्वाचलं प्राप्ते कौतुकादिव भास्करे ॥६५॥ प्रत्यक्षीभूय गीर्वाण उवाचासौ तपोनिधिम् ।। अखर्वपर्वताध्वन्यध्वन्यवध्वस्तवाक्रमम् ? ॥६६॥ पूर्व सुरनरेशानां मानभंगो मया दधे।
त्वां विना नैव केनापि भक्तो मे स्खलनं कृतम् ॥ ६७॥ १P omits णि कंदंति सुरा० २D. स्यकोन्मति. ३ D कजयाथै च वलित्वा वपिसुरा.?. .