________________
२०८
प्रभावकचरिते प्रदोषसमयेऽन्येधुः प्रतिमार्थ बहिर्भुवि । गच्छन्दूरात्समायांतमायांतं जंगमं शिवम् ॥ ३४॥ चारित्रमिव मूर्तिस्थं मथुरायाः समागतम् । सवर्षशतदेशीयमपश्यद्विमलं गणिम् ॥ ३५॥ क्षितिपीठलुठन्मूर्द्धा सर्वाभिगमपूर्वकम् । ववंदे वंदितस्तेन धर्मलाभाशिषा च सः॥ ३६॥ अकाले नगराद्वाह्ये धर्मशील व गम्यते । इत्युक्ते प्रांतभूमीषु व्युत्सर्गायेति सोऽवदत् ॥ ३७॥ गणिः प्राहातिथिस्तेऽहमंगविद्योपदेशतः। मिलित्वा ते वकालाय यामि शत्रुजये गिरौ ॥३८॥ वीरोऽवदथश्रेयो दिनं मे यद्भवादृशाः। प्रसादमसमं कृत्वोत्कंठते किल मादृशाम् ॥ ३९ ॥ निशां सफलयाम्यद्य तत्पूज्यवरिवस्यया । चिंतामणिं करप्राप्तं कः कुण्ठोप्यवमन्यते ॥४०॥ इत्युक्त्वा दर्शयन् स्वीयोपाश्रयं तस्य सहरोः। शुश्रूषां च स्वयं चके देहविश्रामणादिकाम् ॥४१॥ ततश्चाह मुनीशोंग विद्यां त्वमशठः पठ। प्रभावकश्रुतज्ञानाद्भवितासि मते यथा ॥४२॥ वीरः प्राह गृहस्थानां कथं सिद्धांतवाचना।। नाधीतं पुनरायाति वृद्धत्वाद्विदधे किमु ॥४३॥ अथाह गुरुरध्वन्यो भवांतरगतावहम् । अंगविद्या महाविद्या तवायाता स्वयंवरा ॥४४॥ तदर्थ ज्ञापयिष्यामि शीघ्रं तत्पुस्तकं पुनः। थारापद्रपुरे श्रीमान्नाभेयस्य जिनेशितुः॥४५॥ चैत्यस्य शुकनाशेऽस्ति तं गृहीत्वा च वाचये । इत्युक्त्वादात् परिव्रज्यां गुरुवीरस्य सादरम् ॥ ४६॥ दिशन् ग्रंथस्य तस्यार्थ दिनत्रयमवास्थितः।। ततो जगाम स श्रीमान् विमलो विमलेऽचले ॥४७॥ तत्र श्रीवृषभं नत्वा तदेकध्यानमानसः। संन्यासात्रिदिवं प्राप पापमातंगकेसरी ॥४८॥ ततो गुरुनियोगेन वीरस्तत्र पुरे ययौ । स्थाने च तत्समादिष्टे श्राद्धेभ्यः प्राप पुस्तकम् ॥४९॥ अधीता तेन तत्रांगविद्या च गणिविद्यया। तस्याः प्रसादतः सोऽभूदुग्रशक्तिर्महातपाः ॥५०॥
१D. धारा०