________________
श्रीवीरप्रबन्धः ।
अन्यदा तस्करैर्गच्छन् विद्रोतुमयशस्करैः । अवेद्यतारवान् शुष्कपत्रैः कारस्करैरिव ॥ १७ ॥ प्रणश्य च तदा शालः श्रेष्ठिनो गृहमागमत् । अधृतेश्चांगमन्माता गृहद्वारे जनश्रुतेः ॥ १८ ॥ वीरः कुत्र तया पृष्टे नर्मणा सोऽप्यभाषत । चौरेर्वीरो मृषावीरः प्रहतः सत्ववर्जितः ॥ १९ ॥ इत्याकर्ण्य तदंबा च तत्रैवास्थादजीविता । अहो अतुच्छं वात्सल्यं मातुर्वाक्यपथातिगम् ॥ २० ॥ पितुर्भर्तुः कलाचार्यमित्रयोरुपकारिणः । भवेत्कथंचिदानृण्यं जनन्या न कथंचन ॥ २१ ॥ तदा च चौरसंघाताद्वीरो वीरप्रसादतः । स्वक्षेत्रेणाक्षतेनागात् शालभादिव कर्षुकः ॥ २२ ॥ दृष्ट्रा स्वांबां गतप्राणां विस्मरन्निजसंकटम् । किमभूदित्यवपृच्छन् यथावृत्तं तदाशृणोत् ॥ २३ ॥ अनुतप्तः प्रियाबंधुवीरेणाभिदधे तदा । अस्थिभंगं कथं नर्म कृतं मद्भाग्यदूषकम् ॥ २४ ॥ स प्राह कोऽपि नर्मोक्त्या किं मातेव विपद्यते । शल्यं विल्वकवन्मेऽभूदित्याजन्माप्यनिर्गमम् ॥ २५ ॥ वीरः प्राहाथ वैराग्याज्जनन्या मम च स्फुटम् । कीडग्दूरतरं स्नेहसंबंधे पश्यतान्तरम् ॥ २६ ॥ हास्येन मन्मृतिं श्रुत्वा माता सत्येन संस्थिता । सत्येपि निधने तस्या वयं किंचिन्मुचोपि न ॥ २७ ॥ उक्त्वेति कोटिमेकैकां कलत्रेभ्यः प्रदाय सः । शेषः श्रीसंघपूजासु चैत्यौघे चाव्ययद्धनम् ॥ २८ ॥ परिग्रहपरित्यागं कृत्वा गार्हस्थ एव सन् । गत्वा सत्यपुरे श्रीमद्वीरमाराधयन्मुदा ॥ २९ ॥ उपवासान् स (त) दा चाष्ट कृत्वा पारणकं व्यधात् । समस्तविकृतित्यागादहो अस्य महत्तपः ॥ ३० ॥ प्रासुकाहारभोजी च स चतुर्विधपौषधी । पुरबाह्ये श्मशानादौ कायोत्सर्गे निशि व्यधात् ॥ ३१ ॥ दिव्यमानुषतैरश्चोपसर्गेषु समासहिः ।
तप्यमानस्तपस्तीव्रमभवत्तीर्थसन्निभः ॥ ३२ ॥ निजक्रियानुमानेन गुरोरुत्कंठितः सदा । एकचित्तो महावीरपादान् ध्यायत्यमंधीः ॥ ३३ ॥
१ H. स्या
२०७