________________
२०६
प्रभावकचरिते
श्रीवीरप्रबन्धः आंतरारिपुविध्वंसी दुष्कर्मगजयूथहृत् । अष्टापदोदयद्वर्णश्रीवीरः स्वान्वयः श्रिये ॥१॥ श्रीधीरगणिस्वामिपादाः पांतु यदादात् । कषायादिरिपुवातो भवेन्नागमनक्षमः ॥२॥ विबुधा विबुधा यस्योपदेशैरमृताश्रवैः। स्वान्ययोरुपकाराय तस्य वृत्तं प्रतन्यते ॥३॥ पुरं श्रीमालमित्यस्ति गभस्तिरपहस्तितः । यदुद्यानद्रुमैः पूर्वपश्चिमावाश्रयगिरी ॥४॥ मंदतामरसत्वं च यत्र विभ्रति नो जनाः। मंदतामरसत्वं च दधते न सरांस्यपि ॥ ५॥ श्रीधूमराजवंशीयः कुमुदामोदिमंडलः। राजात्र देवराजोस्ति तरंगितनयोदधिः ॥ ६॥ वणिक् प्राग्रहरस्तत्र शिवनागाभिधः सुधिः । यन्मंत्रर्व्हियतेऽत्युग्रद्विजिव्हप्रभवं विषम् ॥ ७॥ दृढानुरागी श्रीजैनधर्मे श्रीधरणाभिधम् । आरराध स नागेंद्रं तद्भक्तरतुषच्च सः॥ ८॥ कलिकुंडक्रमं तस्य सर्वसिद्धिकरं ददौ । विषापहारकं सद्यो जपहोमादिकैर्विना ॥९॥ यः पूत्कारकरस्पर्शेरष्टानामपि संहरेत् । विषं नागकुलानां स मंत्रो निष्पुण्यदुर्लभः ॥ १० ॥ स्तवनं स तदा चके तत्संदर्भप्रभावपरिपूतम् । स्मरणादपि दुरितहरं ख्यातं धरणोरगेंद्राख्यम् ॥ ११ ॥ तस्य पूर्णलतान्वर्था कांता धर्मद्रुमाश्रिता। कुलकंदा वचःपत्रा यशःपुष्पा महाफला ॥१२॥ स्वस्तिवीरस्तयोः पुत्रो रत्नदीप इव स्फुरन् । अक्षयार्चिस्तमोहंता दिवसः प्रकटप्रभः ॥१३॥ यस्य कोटिध्वजव्याजाद्वैजयंत्य इवोर्जिताः। सुमनस्थेन गीर्वाणान् जित्वा वीरः कथं न सः॥१४॥ स सप्तोद्वाहितः कन्याः सप्तानां व्यवहारिणाम् । सप्ताब्धीनामिवामूल्यरत्नौधैर्मडिताः श्रियः॥१५॥ श्रीवीरं वंदितुं वीरः श्रीमत्सत्यपुरेऽन्यदा। मृते पितरि वैराग्याद्याति पर्वसु सर्वदा ॥१६॥
१ H. रारिहरि० २ D सः वंशेनिः.