________________
श्रीसिद्धर्षिसूरिप्रबन्धः ।
२०५ मा खेदं वत्स कार्षीस्त्वं को वनीवद्यते नवा । पानशौण्डैरिवाभ्यस्तकुतर्कमदविह्वलैः॥१४३॥ नाहं त्वां धूर्तितं मन्ये यद्धचो विस्मृतं न मे। मदेन विकलः कोऽपि त्वां विना प्राक्श्रुतं स्मरेत् ॥ १४४ ॥ वेषादिधारणं तेषां विश्वासायापि संभवेत् । अतिभ्रांतिं च नात्राहं मानये तव मानसे ॥ १४५॥ प्रख्यातवक्तुकप्रज्ञा ज्ञातशास्त्रार्थमर्मकः। कः शिष्यस्त्वादृशो गच्छेऽतुच्छे मच्चित्तविभ्रमः॥ १४६॥ इत्युक्तिभिस्तमानंद्य प्रायश्चित्तं तदा गुरुः। प्रदेऽस्य निजे पट्टे तथा प्रातिष्ठिपञ्च तम् ॥ १४७॥ स्वयं तु भूत्वा निस्संगस्तुंगद्रंगभुवं तदा । हित्वा प्राच्यर्षिचीर्णाय तपसेऽरण्यमाश्रयत् ॥१४८॥ कायोत्सर्गी कदाप्यस्थादुपसर्गसहिष्णुधीः । कदापि निर्निमेषाक्षः प्रतिमाभ्यासमाददे ॥ १४९ ॥ कदाचित्पारणे प्रांताहारधारितशंबरम् ।। कदाचिन्मासिकाद्यैश्च तपोभिः कर्म सोक्षिपत् ॥ १५०॥ • एवं प्रकारमास्थाय चारित्रं दुश्चरं तदा । आयुरंते विधायाथानशनं स्वर्ययौ सुधीः॥१५१॥ इतश्च सिद्धव्याख्याता विख्यातः सर्वतोमुखे । पांडित्ये पंडितंमन्यपरशासनजित्वरः॥ १५२॥ समस्तशासनोद्योतं कुर्वन्सूर्य इव स्फुटम् । विशेषतोऽवदानस्तु कृतनिर्वृतिनिर्वृतिः ॥ १५३ ॥ असंख्यतीर्थयात्रादिमहोत्साहैः प्रभावना । कारयद्धार्मिकैः सिद्धो वचःसिद्धिं परां दधौ ॥ १५४ ॥ श्रीमत्सुप्रभदेवनिर्मलकुलालंकारचूडामणिः । श्रीमन्माघकवीश्वरस्य सहजप्रेक्षापरीक्षानिधिः । तवृत्तं परिचिन्त्य कुग्रहपरिष्वंगं कथंचित्कलिः प्रागल्भ्यादपि संगतं त्यजत भो लोकद्वये सिद्धये ॥ १५५॥ श्रीचंद्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभाचंद्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ सिद्धर्षिवृत्ताख्यया श्रीप्रद्युम्नमुनींदुना विशदितः शृंगो जगत्संख्यया ॥ १५६॥
१५७। ग्रं १६० उभयं ३३८०॥
इति श्रीसिद्धर्षिप्रबन्धः
१ D. P. वनीवच्यते. २ H. P. संवरः
18