________________
प्रभावकचरिते
ततः सिद्धश्च तं ग्रंथं वीक्ष्यमाणो महामतिः । व्यमृशत्किमकार्य तन्मयारब्धमचिन्तितम् ॥ १२६ ॥ कोsन्य एवंविधो माहगविचारितकारकः । स्वार्थभ्रंशैः पराख्यानैर्मणि काचेन हारयेत् ॥ १२७ ॥ मदोपकारी स श्रीमान् हरिभद्रप्रभुर्यतः । मदर्थमेव येनासौ ग्रंथोऽपि निरमाप्यत ॥ १२८ ॥ आचार्यो हरिभद्रो मे धर्मबोधकरो गुरुः । प्रस्तावे भावतो हंत स एवाद्य निवेशितः ॥ १२९ ॥ अनागतं परिज्ञाय चैत्यवंदनसंश्रया । मदर्थं निर्मिता येन वृत्तिर्ललितविस्तरा ॥ १३० ॥ विषं विनिर्धूय कुवासनामयं व्यचीचरद्यः कृपया मदाशये । अचित्यवीर्येण सुवासनासुधां नमोस्तु तस्मै हरिभद्रसूरये ॥ १३१ ॥ किं कर्त्ता च मया शिष्याभासेनाथ गुरुर्मम । विज्ञायैतन्निमित्तेनोपकर्त्तुं त्वाह्वयन्मिषात् ॥ १३२ ॥ तदंघ्रिरजसा मौलिं पावयिष्येऽधुनानिशम् । आगः स्वं कथयिष्यामि गुरुः स्यान्न हानीदृशः ॥ १३३॥ तथागतमतिभ्रांतिर्गता मे ग्रंथतोऽमुतः ।
कोद्रवस्य यथा शस्त्राघाततो मदनभ्रमः ॥ १३४ ॥ एवं चिंतयतस्तस्य गुरुर्बाह्यभुवस्ततः । आगतस्तद्दृशं पश्यन् पुस्तकस्थं मुदं दधौ ॥ १३५ ॥ नैषेधिकीमहाशब्दं श्रुत्वोः संभ्रमादभूत् । प्रणम्य रूक्षयामास शिरसा तत्पदद्वयम् ॥ १३६ ॥ उवाच किंनिमित्तोयं मोहस्तव मयि प्रभो । कारयिष्यति चैत्यानि पश्चात्कि मादृशोऽधमाः ॥ १३७ ॥ उन्मीलादूषकास्फोटस्फुटवेदनविद्रुहः ।
२०४
स्वादविघ्नाश्चला दन्ताः कुशिष्याश्च गताशुभाः ॥ १३८ ॥ आहूतो मिलनव्याजाद्बोधायैव ध्रुवं प्रभो । हारिभद्रस्तथा ग्रंथो भवता विदधे करे ॥ १३९ ॥ भग्नभ्रमः कुशास्त्रेषु प्रभुं विज्ञपये ततः । स्वस्यांतेवासिपाशस्य पृष्ठे हस्तं प्रदेहि मे ॥ १४० ॥ देवगुर्वाद्यवशोत्थमहापापस्य मे तथा ।
प्रायश्चित्तं प्रयच्छाद्य दुर्गतिच्छित् कृपां कुरु ॥ १४१ ॥ अथोवाच प्रभुस्तत्र करुणाशरणाशयः । आनंदाश्रुपरिश्रुत्या परिक्लिन्नोत्तरीयकः ॥ १४२ ॥