________________
श्रीसिद्धर्षिसूरिप्रबन्धः।
२०३ चक्षुरुद्घाटितं येन मम ज्ञानमयं मुदा । पुनस्तव्यामयेत्कोहि धूमायितपरोक्तिभिः ॥ १०९ ॥ अंत्यं वचः कथं नाथ मयि पूज्यैरुदाहृतम् । कः कुलीनो निजगुरुक्रमयुग्मं परित्यजेत् ॥ ११० ॥ मनः कदापि गुप्येत चेद्धत्तूरभ्रमादिव । तथापि प्रभुपादानामादेशं विदधे ध्रुवम् ॥ १११ ॥ इत्युदित्वा प्रणम्याथ स जगाम यथेप्सितम् । महाबोधाभिधं बौद्धपुरमव्यक्तवेषभृत् ॥११२॥ कुशाग्रीयमतेस्तस्याक्लेशेनापि प्रबोधतः। विद्वदुर्भेदशास्त्राणि तेषामासीश्चमत्कृतिः॥ ११३॥ तस्यांगीकरणे मंत्रस्तेषामासीदुरासदः । तमस्युद्योतको रत्नमाप्य माध्यस्थ्यमाश्रयेत् ॥ ११४॥ तादृग्वचःप्रपंचैस्तैर्बर्द्धकैर्गर्द्धकैरपि । तं विप्रलम्भयामासुर्मीनवद्धीवरा रसात् ॥ ११५॥ शनैतमनोवृत्तिर्बभूवासौ यथातथा । तदीयदीक्षामादत्त जैनमार्गातिनिस्पृहः ॥ ११६॥ अन्यदा तैर्गुरुत्वेऽसौ स्थाप्यमानोऽवदन्ननु । एकवेलं मया पूर्वे संवीक्ष्या गुरवो ध्रुवम् ॥ ११७ ॥ इति प्रतिश्रुतं यस्मात्तदने तत्प्रतिश्रवम् । सत्यसंधस्त्यजेत्तत्कस्तत्र प्रहिणुताथ माम् ॥ ११८॥ इति सत्यप्रतिशत्वमतिचारु च सौगते । मन्यमानास्ततः प्रैषुः स चागाहरुसंनिधौ ॥ ११९ ॥ गत्वाथोपाश्रये सिंहासनस्थं वीक्ष्य तं प्रभुम् । ऊर्ध्वस्थानशुभा यूयमित्युक्त्वा मौनमास्थितः ॥ १२०॥ गर्गस्वामी व्यमृक्षच संजशे तदिदं कुलम् । अनिमित्तस्य जैनीवाग नान्यथा भवति ध्रुवम् ॥ १२१ ॥ अस्माकं ग्रहवैषम्यमिदं जज्ञे यदीदृशः। सुविनेयो महाविद्वान् परशास्त्रप्रलंभितः ॥ १२२ ॥ तदुपायेन केनापि बोध्योऽसौ यदि भोत्स्यते । तदस्माकं प्रियं भाग्यैरुदितं किं बहूक्तिभिः॥१२३॥ ध्यात्वेत्युत्थाय गुरुभिस्तं निवेश्यासनेऽपिता। चैत्यवंदनसूत्रस्य वृत्तिर्ललितविस्तरा ॥ १२४॥ ऊचुश्च यावदायामः कृत्वा चैत्यनतिं नयम् । ग्रंथस्तावदयं वीक्ष्य इत्युक्त्वा तेऽगमन् बहिः॥ १२५॥
-
१H. सचेतनः D. त्वं मतीरुते.