________________
२०२
प्रभावकचरिते
f
अथोत्पत्तिरसाधिक्यसारा किंचित्कथापि मे । अहो ते लेखकस्येव ग्रंथः पुस्तकपूरणः ॥ ९२ ॥ अथ सिद्धकविः प्राह मनो दूनोपि (षि) नो खरम् । वयोतिक्रांतपाठानामीदृशी कविता भवेत् ॥ ९३॥ का स्पर्द्धा समरादित्य कवित्वे पूर्वसूरिणा । खद्योतस्येव सूर्येण माहरमंदमतेरिह || इत्थमुद्वे जितस्वांतस्तेनासौ निर्ममे बुधः अन्यदुर्बोधसंबद्धां प्रस्तावाष्टकसंभृताम् । ९५॥ रम्यामुपमितभवप्रपंचाख्यां महाकथाम सुबोधकथितां विद्वदुत्तमांगविधूननीम् ९६ ॥ ग्रंथाव्याख्यानयोग्यं यदेनं चक्रे शमाश्रयम् । अतः प्रभृति संघोऽत्र व्याख्यातृबिरुदं ददौ ॥ ९७ ॥ दर्शिताथास्य तेनाथ हसितुः स ततोऽवदत् । ईदृक् कवित्वमाधेयं त्वगुणाय मयोदितम् ॥ ९८॥ ततो व्यचिंतयत्सिद्धो ज्ञायते यदपीह न । तेनाप्यज्ञानता तस्मादध्येतव्यं ध्रुवं मया ॥ ९९॥ तर्कग्रंथा मयाधीताः स्वपरेपीह ये स्थिताः । बौद्धप्रमाणशास्त्राणि न स्युस्तद्देशमन्तरा ॥ १०० ॥ आपप्रच्छे गुरुं सम्यगविनीतवचनैस्ततः । प्रान्तरस्थितदेशेषु गमनायोन्मनातिः ॥ १०१ ॥ निमित्तमवलोक्याथ श्रौतेन विधिना ततः । सवात्सल्यमुवाचाथ नाथप्राथमकल्पिकम् ॥ १०२ ॥ असंतोषः शुभोऽध्याये वत्स किंचिद्वदामि तु । स त्वमत्र न सत्वानां समये प्रमये धिंया ॥ १०३ ॥ भ्रांतं चेतः कदापि स्याद्धेत्वाभासैस्तदीयकैः । अर्थी तदागमश्रेणेः स्वसिद्धांतपराङ्मुखः ॥ १०४ ॥ उपार्जितस्य पुण्यस्य नाशं त्वं प्राप्स्यसि ध्रुवम् । निमित्तत इदं मन्ये तस्मान्मात्रोद्यमी भव ॥ १०५ ॥ अथ चेदवलेपस्ते गमने न निवर्त्तते । तथापि मम पार्श्व त्वमागा वाचा ममैकदा ॥ १०६ ॥ रजोहरणमस्माकं व्रतांगं नः समर्पये । इत्युक्त्वा मौनमातिष्ठद्गुरुं चित्तव्यथाधरः ॥ १०७ ॥ प्राह सिद्धः श्रुती च्छादयित्वा शांतं हि कल्मषम् । अमंगलं प्रतिहतमकृतज्ञः क ईदृशः ॥ १०८ ॥
१ H. P. ग्रथव्या.
२ धियां.
11