________________
श्रीसिद्धर्षिसूरिप्रबन्धः ।
यावज्जीवं हि विदधे यद्यहं तत्कुलीनता । अक्षता स्यादिदं चित्ते सम्यक्तात विचिंतय ॥ ७५ ॥ अथाह संभ्रमाच्छ्रेष्ठी किमिदं वस्तु चिन्तितम् । असंख्यध्वजविज्ञेयं धनं कः सार्थयिष्यति ॥ ७६ ॥ विलस त्वं यथा सौख्यं विदेहि निजयेच्छया । अविमुंचन्सदाचारं सतां श्लाघ्यो भविष्यसि ॥ ७७ ॥ एकपुत्रा तवांबा च निरपत्या वधूस्तथा । गतिस्तयोस्त्वमेवासीजीर्ण माजीगणस्तु माम् ॥ ७८ ॥ पित्रेत्थमुदिते प्राह सिद्धः सिद्धशमस्थितिः । संपूर्ण लोभिवाणीभिस्तत्र मे श्रुतिरश्रुतिः ॥ ७९ ॥ ब्रह्मणीव मनो लीनं ममातो गुरुपादयोः । निपत्य ब्रूहि दीक्षां (हि) पुत्रस्य मम यच्छत ॥ ८० ॥ इति निबंधतस्तस्य तथा चक्रे शुभंकरः । गुरुः प्रादात्परिव्रज्यां तस्य पुण्ये स्वरोदये ॥ ८१ ॥ दिनैः कतिपयैर्मासमाने तपसि निर्मिते । शुभे लग्ने पंचमहाव्रतारोपणपर्वणि ॥ ८२ ॥ दिग्बंधं श्रावयामास पूर्वतो गच्छ संततिम् । सत्प्रभुः शृणु वत्स त्वं श्रीमान् वज्रप्रभुः पुरा ॥ ८३ ॥ तच्छिष्यवज्रसेनस्याभूद्विनेयचतुष्टयी ।
नागेंद्रो निर्वृतिश्चंद्रः ख्यातो विद्याधरस्तथा ॥ ८४ ॥ आसीन्निर्वृत्तिगच्छे च सुराचार्यो धियां निधिः । तद्विनेयश्च गर्गर्षिरहं दीक्षागुरुस्तव ॥ ८५ ॥ शीलांगानां सहस्राणि त्वयाष्टादश निर्भरम् । वोढव्यानि विविश्राममाभिजात्यफलं ह्यदः ॥ ८६ ॥ ओमिति प्रतिपद्याथ तप उग्रं चरन्नसौ । अध्येता वर्त्तमानानां सिद्धान्तानामजायत ॥ ८७ ॥ स चोपदेशमालाया वृत्तिं बालावबोधिनीम् । विदधेऽवहितप्रज्ञः सर्वज्ञ इव गीर्भरैः ॥ ८८ ॥ सूरिर्दाक्षिण्यचंद्राख्यो गुरुभ्रातास्ति तस्य सः । कथां कुवलयमालां चक्रे शृंगारनिर्भराम् ॥ ८९ ॥ किंचित्सिद्धकृतग्रंथसोत्प्रासः सोवदत्तदा । लिखितैः किं नवोग्रंथस्तदवस्थागमाक्षरैः ॥ ९० ॥ शास्त्रं श्रीसमरादित्यचरितं कीर्त्यते भुवि । यद्रसोर्मिलता जीवाः क्षुत्तृडाद्यं न जानते ॥ ९१ ॥
१ H. अति • D omits पुत्रस्य स्तस्य.
२०१