________________
प्रभावकचरिते
६४ ॥
इत्याकर्ण्यवदत्सिद्धो मत्सहव्यसनस्थिताः । छिन्नकर्णोष्ठनासादिबाहुपादयुगा नराः ॥ ५८ ॥ क्षुधाकरालिताभिक्षा चौर्यादेर्वृत्तिधारिणः । अप्राप्तशयनस्थानाः पराभूता निजैरपि ॥ ५९ ॥ नाथ किं तदवस्थाया अपि किं दुष्करो भवेत् । संयमो विश्ववंद्यस्तन्मूर्ध्नि देहि करं मम ॥ ६० ॥ यददत्तं न गृह्णीमो वयं तस्मात्स्थिरो भव । दिनमेकं यथा विज्ञापयामः पैतृकं तव ॥ ६१ ॥ ततः प्रमाणमादेश इत्युक्त्वा तत्र सुस्थिते । परं हर्षे दधौ सूरिः सुविनेयस्य लाभतः ॥ ६२ ॥ इतः शुभंकरश्रेष्ठी प्रातः पुत्रं समाह्वयत् । शब्दादाने च संभ्रांतः पश्यन् पत्नीं नताननाम् ॥ ६३ ॥ अद्य रात्रे कथं नागात्सिद्ध इत्युदिता सती । लज्जानम्रावदद् द्यूती शिक्षितोऽथ सुतो ययौ ॥ श्रेष्ठी दध्यौ महेलाः स्युरुत्तानधिषणा ध्रुवम् । न कर्कशवचोयोग्ये व्यसनी शिक्ष्यते शनैः ॥ ६५ ॥ ईषत्करं ततः प्राह प्रिये भव्यं त्वया कृतम् । वयं किं प्रवदामोऽत्र वणिजां नोचितं ह्यदः ॥ ६६ ॥ गृहाद्बहिश्च निर्याय प्रयासांगीकृतः स्थितः । व्यलोकयत्पुरं सर्वमहो मोहः पितुः सुते ॥ ६७ ॥ इतश्चरित्रिशालायामसावुपशमोर्मिभिः । आलुतोऽपूर्वसंस्थानं ततोऽवादि च तेन सः ॥ ६८ ॥ यद्येवं शमिसामीप्यस्थितिं पश्यामि ते सुतः । अमृतेनेव सिच्येत नंदनानन्दनस्थिते ॥ ६९ ॥ द्यूतव्यसनिनां साध्वाचारातीतकुवेषिणाम् । संगतो मम हृद्दुःखहेतुः केतुरिव ग्रहः ॥ ७० आगच्छ वत्स सोत्कंठा तव माता प्रतीक्षते । किंचिन्मद्वचनैर्दूना संतप्ता निर्गमात्तव ॥ ७१ ॥ स प्राह तात पर्याप्तं गेहागमनकर्मणि । मम लीनं गुरोः पादारविंदे हृदयं ध्रुवम् ॥ ७२ ॥ जैनदीक्षाधरो मार्ग मार्ग निष्प्रतिकर्मतः । आचरिष्यामि तन्मोहो भवद्भिर्मा विधीयताम् ॥ ७३ ॥ याया अपावृतद्वारे वेश्मनीत्यंबिकावचः । शमिसंनिध्यवस्थानं मतं नस्तदभूद्वचः ॥ ७४ ॥
१ H. स्थितिः,
२००