________________
श्रीसिद्धर्षिसूरिप्रबन्धः ।
सदाप्यनावृतद्वारं शालायां पश्यति स्म सः । मुनीन् विविधचर्यासु स्थितान्निष्पुण्यदुर्लभान् ॥ ४१ ॥ कांश्चिद्वैरात्रिकं कालं विनिद्रस्य गुरोः पुरः । प्रवेदयत उत्साहान्कांश्चित्स्वाध्यायरंगिणः ॥ ४२ ॥ उत्कटिकासनान् कांश्चित् कांश्चिद्गोदोहिकासनान् । वीरासनस्थितान् कांश्चित्सोऽपश्यन्मुनिपुंगवान् ॥ ४३ ॥ अचिंतयच्छमसुधानिर्झर निर्जरा इव ।
सुस्नातशीतला एते तृष्णाभीता मुमुक्षवः ॥ ४४ ॥ मादृशा व्यसनासक्ता अभक्ताः स्वगुरुष्वपि । मनोरथद्वहस्तेषां विपरीतविहारिणः ॥ ४५ ॥ धिग्जन्मेदमिहामुत्र दुर्यशो दुर्गतिप्रदम् । तस्मात्सुकृतिनी वेला यत्रैते दृष्टिगोचराः ॥ ४६ ॥ अमीषां दर्शनात्कोपिन्याप्युपकृतं मयि । जनन्या क्षीरमुत्तप्तमपि पित्तं प्रणाशयेत् ॥ ४७ ॥ ध्यायन्नित्यग्रतस्तस्थौ नमस्तेभ्यश्चकार सः । प्रदत्तधर्मलाभाशीर्निर्ग्रथः प्रभुराह च ॥ ४८ ॥ को भवानिति तैः प्रोक्ते प्रकटं प्राह साहसी । शुभंकरात्मजः सिद्धो द्यूतान्मात्रा निषेधितः ॥ ४९ ॥ उद्घाटद्वारि यायास्त्वमोकसीयन्महानिशि । इयंती वाचना दत्ता प्रावृतद्वारि संगतः ॥ ५० ॥ अतःप्रभृति पूज्यानां चरणौ शरणौ मम । प्राप्ते प्रवहणे को हि निस्तितीर्षति नांबुधिम् ॥ ५१ ॥ उपयोगं श्रुते दत्त्वा योग्यताहृष्टमानसाः । प्रभावकं भविष्यंतं परिज्ञायाथ तेऽवदन् ॥ ५२ ॥ अस्मद्वेषं विना नैवास्मत्पार्श्वे स्थीयतेतराम् । सदा स्वेच्छाविहाराणां दुर्ग्रहः स भवादृशाम् ॥ ५३ ॥ धार्य ब्रह्मवतं घोरं दुष्करं कातरैर्नरैः । कापोतिका तथा वृत्तिः समुदानापराभिधा ॥ ५४ ॥ दारुणः केशलोचोऽथ सर्वांगीणव्यथाकरः । सिकतापिंडवञ्च्चायं निरास्वादश्च संयमः ॥ ५५ ॥ उच्चावचानि वाक्यानिं नीचानां ग्रामकंटकाः । सोढव्या दशनैश्चर्वणीया लोहमया यवाः ॥ ५६ ॥ उग्रं षष्ठाष्टमाद्यं तत्तपः कार्य सुदुष्करम् । स्वाद्यास्वाद्येषु लब्धेषु रागद्वेषौ न पारणे ॥ ५७ ॥
१ H. अभव्याः सुगु० २ Do सूपकृ० ३ D वासानां.
१९९