________________
१९८
प्रभावकचरिते अगूढातिप्ररूढेऽस्मिन्नहर्निशमसौऽवशः। तदेकचित्तधूर्तानां सदाचारादभूदहिः ॥ २४ ॥ सफ्पिासोशनायाति शीतोष्माच्च विमर्शतः । योगीव लीनचित्तोऽत्र व्यत्रस्यत्साधुवाक्यतः ॥ २५ ॥ निशीथातिक्रमे रात्रावपि स्वकगृहागमी। वध्वा प्रतीक्ष्य एकस्यास्तया नित्यं प्रतीक्ष्यते ॥२६॥ अन्यदा रात्रिजागर्यानिर्यातवपुरुद्यमाम्। गृहव्यापारकृत्येषु विलीनांगस्थितिं ततः ॥ २७ ॥ ईदृक् ज्ञातेयसंबंधवशकर्कशवाग्भरम् । खभूरश्रूणि मुंचंती वधूं प्राह सगद्गदम् ॥ २८ ॥ मयि सत्यां पराभूतिं कस्ते कुर्यात्ततः स्वयम् । विद्यते कुविकल्पैस्त्वं गृहकर्मभरालसा ॥ २९ ॥ श्वशुरोपि च ते व्यग्रो यदा राजकुलादिह । आगंता च ततो देवावसरादावसजिते ॥ ३०॥ मामेवाकोश्यति त्वं तत्तथ्यं मम निवेदय । यथा द्राग्भवदीयातिप्रतीकारं करोम्यहम् ॥ ३१ ॥ सा न किंचिदिति प्रोच्य खUनिर्बधतोऽवदत् । युष्मत्पुत्रोऽर्द्धरात्रातिक्रमेऽभ्येति करोमि किम् ॥ ३२॥ श्रुत्वेत्याह तदा श्वश्रूः किं नाग्रेऽजल्पि मे पुरः। सुतं खं बोधयिष्यामि वचनैः कर्कश ॥३३॥ अद्य स्वपिहि वत्से त्वं निश्चिताहं तु जागरम् । कुर्वे सर्व भलिष्यामि नात्र कार्याधृतिस्त्वया ॥ ३४ ॥
ओमित्यथ स्नुषाप्रोक्ते रात्रौ तद्वारि तस्थुषी। विनिद्रा पश्चिमे यामे रात्रेः पुत्रः समागमत् ॥ ३५॥ द्वारं द्वारमिति प्रौढस्वरोऽसौ यावदूचिवान् । इयद्रात्रौ क आगंता मातावादीदिति स्फुटम् ॥ ३६ ॥ सिद्ध(:)सिद्ध इति प्रोक्ते तेन सा कृतकक्रुधा। प्राह सिद्धं न जानेऽहमप्रस्तावविहारिणम् ॥ ३७॥ अधुनाहं व यामीति सिद्धेनोके जनन्यपि । अन्यदा शीघ्रमायाति यथास्मात्कर्कशं जगौ ॥ ३८ ॥ एतावत्यां निशि द्वारं विवृत्तं यत्र पश्यसि । तत्र यायाः समुद्धाटद्वारा सर्वापि किं निशा ॥ ३९॥ भवत्वेवमिति प्रोक्ते सिद्धस्तस्मानिरीय च । पश्यन्ननावृतद्वारो द्वारेगादनगारिणाम् ॥४०॥
१ H. प्ररूढोऽस्मि. सौधसः । तदाकवित्तधू०