________________
श्रीसिद्धर्षिसूरिप्रबन्धः ।
१९७ तत्रास्ति हास्तिका स्वीयापहस्तितरिपुवजः। नृपः श्रीवर्मलाताख्यः शत्रुमर्मभिदाक्षमः ॥९॥ तस्य सुप्रभदेवोस्ति मंत्री मित्रं जगत्यपि । सर्वव्यापारमुद्राभृन्मुद्राकृहुर्जनानने ॥ १०॥ देवार्योशनसौर्यस्य नीतिरीतिमुदीक्ष्य तौ। अवलंब्य स्थितौ विष्णुपदं कर्तुं तपःकिल ॥ ११॥ तस्य पुत्रावुभावंसाविव विश्वभरक्षमौ । आद्यो दत्तः स्फुरवृत्तो द्वितीयश्च शुभंकरः ॥१२॥ दत्तवित्तोनुजीविभ्यो दत्तचिंत्तसुधर्मधी। अप्रवृत्तः कुकृत्येषु तत्र सुत्रामवत् श्रिया ॥१३॥ हर्म्यकोटिस्फुरत्कोटिध्वजजालान्तरखिताः। जलजन्मतयेव श्रीर्यस्मादासीदनिर्गमा ॥१४॥ तस्य श्रीभोजभूपालबालमित्रं कृतीश्वरः। श्रीमाधो नंदनो ब्राह्मीस्पंदनः शीलचंदनः ॥१५॥ ऐदंयुगीनलोकस्य सारसारस्वतायितम् । शिशुपालवधः काव्यं प्रशस्तिर्यस्य शाश्वती ॥१६॥ श्रीमाधोस्ताघधीः ध्यः प्रशस्यः कस्य नाभवत् । चित्तजाड्यहरा (स्य काव्यगंगोर्मिविपुषः ॥१७॥ तथा शुभंकरश्रेष्ठी विश्वविश्वप्रियंकरः। यस्य दानाद्भुतैर्गीतैर्हर्यश्वो हर्षभूरभूत् ॥ १८॥ तस्याभवहिनी लक्ष्मीलक्ष्मीलक्ष्मीपतेरिव । यया सत्यापिताः सत्यः सीताद्या विश्वविश्रुताः॥१९॥ नंदनो नंदनोत्तंसः कल्पद्रुम इवामरः। यथेच्छादानतोऽर्थिभ्यः प्रथितः सिद्धनामतः॥ २०॥ अनुरूपकुलां कन्यां धन्यां पित्रा विवाहितः। भुंक्ते वैषयिकं सौख्यं दोगुंदग इवामरः ॥ २१ ॥ दुरोदरभरोदारो दाराचारपरामुखः । अन्यदासोऽभवत्कर्म दुर्जयं विदुषामपि ॥२२॥ पितृमातृगुरुस्निग्धबंधुमित्रैर्निवारितः। . अपि नैव न्यवर्तिष्ट दुर्वारं व्यसनं यतः॥ २३ ॥
१D च. २ H मंत्रीमिततपः किल. ३ D सोर्यस्य. ४ P omits मित्रं जगत्यपि 'पदं कत्तुं. ५ DH. आद्यादत्तः । ६ D P. दत्तचित्तश्च धर्म० ७. D. मित्रंकृती स्वद्योस्तागधीश्लाध्यः प्रशंस्यकंस्यभातवत् । ८ P चित्रं. D चित्र.