________________
१४
प्रभावकचरिते
सदानन्दनबाहुल्यपराभूतद्युसत्पुरम् । पुरं दशपुरं नामावन्तिकान्तिकसप्तकी ॥ ४ ॥ उदायनो निशानाथ इव नव्योऽकलङ्कभूः । अगम्यस्तमसोऽक्षीणकलोऽभूत्तत्र भूपतिः ॥ ५ ॥ सौवस्तिकपदप्राप्तप्रतिष्ठोऽतिविशिष्टधीः । वर्णज्येष्ठः कुलश्रेष्टः क्रियानिष्ठः कलानिधिः ॥ ६ ॥ आसीच्छ्री सोमदेवाख्यः शमितेष्वमितेष्वपि । यन्मन्त्रैः शत्रुवर्गेषु शृङ्गाराय चमूचयः ॥ ७ ॥ युग्मम् । रुद्रसोमाभिधास्याभूत्प्रिया प्रियवचःक्रमैः । संपूर्णदानैरर्थिभ्यः कृतदारिद्र्यविद्रवा ॥ ८ ॥ सूर्याश्वयोरिव यमौ तयोः पुत्रौ बभूवतुः । आर्यरक्षित इत्याद्येो द्वितीयः फल्गुरक्षितः ॥ ९॥ पुरोहितेन तौ तेन साङ्गान्वेदान्प्रपाठितौ । आत्मजानां विनीतानां स्वामृद्धिं निह्नुते हि कः ॥ १० ॥ अतृप्तः शास्त्रपीषे विद्वानप्यार्य रक्षितः । पिपठीस्तद्विशेषं स प्रययौ पाटलीपुरम् ॥ ११ ॥ अचिरेणापि कालेन स्फुरत्कुण्डलिनीबलः । वेदोपनिषदं गोप्यामप्यध्यैष्ट प्रकृष्टधीः ॥ १२ ॥ अथोपाध्यायमापृच्छ्य व्यावृत्तः स्वभुवं प्रति । आरूढवद्ययौ सोऽथाययौ परिसरे पुरः ॥ १३ ॥ ज्ञातोदन्तेन राज्ञा स पितृविज्ञपनादथ । प्रावेशि गजमारुह्य संमुखागामिना स्वयम् ॥ १४ ॥ प्रधानकुलवृद्धाभ्यः सुलब्धाशीर्गृहे गृहे । अपराह्ने निजावासप्राङ्गणं प्रागमत्ततः ॥ १५॥ रुद्रसोमा पुनस्तत्र श्रमणोपासका तदा । विज्ञातजीवाजीवादिनवत्तत्त्वार्थविस्तरा ॥ १६ ॥ कृतसामायिका पुत्रमुत्कण्ठाकुलितं चिरात् । इलातलमिलन्मौलिं वीक्ष्यापि प्रणतं भृशम् ॥ १७ ॥ अवर्द्धयत नाशीर्भिः सामायिकभिदाभिया । अतिखिन्नस्ततः प्राह स धीमानार्यरक्षितः ॥ १८॥ त्रिभिर्विशेषकम् ॥ धिग्ममाधीतशास्त्रौघं बह्वप्यवकरप्रभम् । येन मे जननी नैव परितोषमवापिता ॥ १९ ॥ ध्यात्वेत्युवाच किं मातः परितोषो न तेऽभवत् । साह तुष्याम्यहं केन पाठैस्तैर्दुर्गतिप्रदैः ॥ २० ॥
१P कान्तैकसप्तकी. २ J & H गोपांगमप्यध्यै ३ J & H खद्भु. ४ P - विज्ञाततत्त्वा जीवादि नवभेदितिविस्तारा.