________________
आर्यरक्षितप्रबन्धः ।
सुभिक्षं तत्क्षणं जज्ञे ततः सा सपरिच्छदा। अचिन्तयदहो मृत्युरभविष्यदरीतितः ॥ १९४ ॥ जीवितव्यफलं किं न गृह्यते संयमग्रहात् । वज्रसेनमुनेः पार्श्वे जिनबीजस्य सहरोः ॥ १९५॥ ध्यात्वेति सा सपुत्राथ व्रतं जग्राह साग्रहा। नागेन्द्रो निर्वृतिश्चन्द्रः श्रीमान् विद्याधरस्तथा ॥ १९६ ॥ अभूवंस्ते किंचिदूनदशपूर्वविदस्ततः। चत्वारोऽपि जिनाधीशमतोहा(द्धा)रधुरंधराः ॥ १९७॥ अद्यापि गच्छास्तन्नाम्ना जयिनोऽवनिमण्डले । वर्तन्ते तत्र तीर्थ च मूर्तयोऽद्यापि साहणाः ॥ १९८ ॥ इति श्रीमद्वज्रप्रभुचरितमेतदिविषदा
मपि स्तुत्यं तत्त्वं किमपि जिननाथोपनिषदाम् । थियां हेतुः सेतुर्भवजलधिनिस्तारविधये ।
प्रदेयादानन्दं जयतु शशिसूर्यावधि यथा ॥ १९९॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा
चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्पिचरित्ररोहणगिरौ श्रीवज्रवृत्ताभिधः
श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गोऽगमत्प्राक्तनः ॥२०॥ मूर्तिः लाष्टापदश्रीर्विमलगिरिरतित्तारणः श्रीभरोयम्
दुःखार्तानामपापा किल मतिरसतां स्तम्भनश्च प्रभावः। चेतः स्यादुजयन्तस्थितिकृदनुपमं चारुरूपं यशस्तत् श्रीमन्(त) प्रद्युम्नसूरेऽर्बुदगुणविजयी तीर्थरूपस्त्वमेव ॥ १ ॥
ग्रंथानं २०७ अक्षर ॥ ११॥
आयरक्षितग्रवन्धः । अब्यादव्याहतं भव्यान् स श्रीमानार्यरक्षितः । सलूलघातमाहन्ति धर्मो यस्यान्तरद्विषः॥१॥ पीयूपमिव यवृत्तमनिर्वाच्यं बुधैरपि । वैचक्षण्यवलिप्ती मे मतिः किं नु विक्ष्यति ॥२॥ पुनस्तथापि वातापितापनत्य तमोऽम्बुधेः। तस्य वृत्तं स्मृतौ बाचं प्रणये प्रणयावधिः ॥ ३ ॥ १]-जैनबीजस्य.. २P-रतितार०. ३J and H-दुःखानामपाप्य ............... प्रभावंतः स्यादुजयं......दण्ड चारुरूपं यस्तत् श्रीप्रा०. ४ P-ग्रंथ २०७ अक्ष ११ इतिवयर (वज्र) स्वामिप्रवन्धः. ५ P.वैचक्षिण्यावि० किंनु विनश्यति. ६J & H वृत्तस्मृतौ वाचं.