________________
१२
प्रभावकारिते
तच्छ्रुत्वा मुनयः सर्वे परं वैराग्यमादधुः । प्रशान्तविग्रहास्तस्थुः स्थण्डिलेषु पृथक् पृथक् ॥ १७८ ॥ प्रत्यनीका सुरी तत्रोपसर्गायोपतस्थुषी । निशीथे दिवसं कृत्वा दधि तेषामढौकयत् ॥ १७९ ॥ विज्ञायाऽप्रीतिकं तत्रान्यत्र शृङ्गेऽथ ते ययुः । मृत्युजीवितयोर्येनाशंसास्तेषां सुराः किमु ॥ १८० ॥ यथायोगं च ते प्राणान् परित्यज्य सुरालयम् । श्रीवोsपि जगाम द्यामध्यानवैभवः ॥ १८१ ॥ शक्रस्तत्राययौ पूर्वभवस्नेहेन तद्ययम् । ज्ञात्वा चतुर्दिशं स्वीयरथमावर्त्तताथ सः ॥ १८२ ॥ गहनानि तरूणां च तत्रोन्मूल्य समां भुवम् । कृत्वा तत्र क्षणं तस्थौ सुपर्वश्रेणिसंभृतः ॥ १८३ ॥ ततः प्रभृति विख्यातो रथावर्त्ताख्यया गिरिः । असावचलतां याति ख्यातिर्या गुरुभिः कृता ॥ १८४ ॥ वज्रसेनश्च सोपारं नाम पत्तनमत्यगात् । जिनदत्तप्रियास्त्यत्रेश्वरीत्याख्या चतुःसुता ॥ १८५ ॥ अक्षाम गुरुशिक्षाढ्यः स तस्या मंदिरे ययौ । चिन्तामणिमिवायान्तं तं हर्षमाप सा ॥ १८६॥ प्राहाथ साहसं साधोऽस्माभिरद्य विचिन्तितम् । स्थालीपाकोऽत्र लक्षेण पूरितः केष्टकल्पनात् ॥ १८७ ।। द्रव्यसंपदि सत्यामप्यन्नदौस्थ्यान्मृतिर्धुवम् ।
ततोऽत्र पायसे पक्के निक्षेप्यं विषमं विषम् ॥ १८८ ॥ युग्मम | तदत्रावसरे पूज्यदर्शनं पुण्यतोऽभवत् । कृतार्थाः सांप्रतं पारत्रिकं कार्यमिहादधे ॥ १८९ ॥ इत्याकर्ण्य मुनिः प्राह गुरुशिक्षाचमत्कृतः । धर्मशीले शृणु श्रीमद्वज्रस्वामिनिवेदितम् ॥ १९० ॥ स्थालीपाके किलैकत्र लक्षमूले समीक्षिते । सुभिक्षं भावि सविषं पार्क मा कुरु तथा ॥ १९१ ॥ सापि प्राह प्रसादं नः कृत्वैतत्प्रतिगृह्यताम् । इत्युक्त्वा पात्रपूरेण प्रत्यलाभि तया मुनिः ॥ १९२॥ एवं जातेऽथ संध्यायां वहित्राणि समाययुः । प्रशस्यशस्यपूर्णानि जलदेशान्तराध्वना ॥ १९३ ॥
= P का
१ All read यामध्यानवैभव:, but Pgives मध्या as त्रुटि the margin which makes यामध्यामध्यानवैभवः. ३ H & J - सत्यमेष्यन्नदोः ख्या. ४P मूल्ये,
1