________________
वज्रप्रबन्धः ।
विमानवैक्रिये तांश्चावस्थाप्यागान्निजे पुरे । जृम्भकैः कृतसंगीतोत्सवे गगनमण्डले ॥ १६२ ॥ ध्वनत्सु देवतूर्येषु शब्दाद्वैते विजृम्भिते। तं तदूर्व समायान्तं दृष्ट्वा बौद्धाश्चमत्कृताः ॥१६३॥ ऊचुर्धर्मस्य माहात्म्यमहो नः शासने सुराः। आयान्ति पश्यतां तेषां ते ययुर्जिनमन्दिरे ॥१६४॥ श्राद्धसंघः प्रमुदितः पूजां कृत्वा जिनेशितुः । तत्र धर्मदिने धर्ममश्रौषीद्वज्रसगुरोः॥१६५ ॥ प्रातिहार्येण चानेन राजा तुष्टोऽभ्युपागमत् । प्रत्यबोधि च वज्रेण बौद्धाश्चासन्नधोमुखाः ॥१६६ ॥ विहरन्नन्यदा स्वामी प्रययौ दक्षिणापथम् । कुत्रचिच्छुद्धभूभागोद्यानेऽसौ समवासरत् ॥१६७॥ श्लेष्मरोगापनोदायानाययद्विश्वभेषजम् । उपयुक्तावशेषं च श्रवणे धारयत्ततः॥१६८ ॥ प्रत्युपेक्षणकाले तत्तत्रस्थं चापराह्निके। मुखवस्त्रिकयात्रस्यत्कर्णयोः प्रतिलेखने ॥ १६९ ॥ दध्यावायुरहोक्षीणं विस्मृतिर्यन्ममोदिता । पुनर्दुर्भिक्षमाप्तं च प्रागुक्तादधिकं ततः ॥ १७० ॥ वज्रसेनस्तैदादिश्य वंशार्थ वज्रसूरिभिः। प्रहितः स शनैः प्रायात्कुंकुणानं चित्तवच्चणान् ॥ १७१ ॥ अलब्धभिक्षान्दुर्भिक्षाद्विद्यापिण्डेन भोजितान् । साधूनाह च भोज्योऽयं नित्यं द्वादशवत्सरीम् ॥ १७२ ॥ ग्राह्यं चानशनं ते च श्रुत्वा तत्प्रायमाविशन् । श्रीवज्रः कुत्रचिच्छैले साधुभिः सहितो ययौ ॥ १७३॥ मार्गे गच्छद्भिरेकत्र ग्रामे प्रालम्भि सूरिभिः। शिष्य एकः स तज्ज्ञात्वा वैराग्यं परमं दधौ ॥ १७४ ॥ दध्यौ च प्रोज्झ्य मामेते जग्मुर्जीवत्वसाविति । निःसत्वोऽहं कथं दृष्टः प्रभुं नानुव्रजामि तत् ॥ १७५ ॥ ध्यात्वेति तप्तपाषाणे पादपोपगमं व्यधात् । व्यलीयत मधूच्छिष्टमिव सत्वरितस्तदा ॥१७६॥ तद्विपत्तौ महे देवैः क्रियमाणे मुनीश्वरः। यतीनां पुरतोऽवादीच्छिशोः सत्वमिदं महत् ॥ १७७॥
१P reads विमाने वैक्रियेता. २J and H-समायातं. ३ J& H-वातेन. ४ J and H-श्रस्यत्कर्णयोः. ५ P reads स्तथा. ६ J& H-कुंकुणाविन्नवच्चरान्.