________________
प्रभावकचरिते
श्रुत्वेति प्रतिबुद्धा साभिलाषगरले हृते । गृहीत्वा संयम संयमिनीपार्श्वमशिश्रयत् ॥ १४७ ॥ महापरिज्ञाध्ययनादाचाराङ्गान्तरस्थितात् ।। श्रीवजेणोद्धृता विद्या तदा गगनगामिनी ॥ १४८ ॥ अवृष्टेरन्यदा तत्राभूहुर्भिक्षमतिक्षयम् । सचराचरजीवानां कुर्वदुर्वीतलेऽधिकम् ॥ १४९ ॥ सीदन् संघः प्रभोः पार्श्वमाययौ रक्ष रक्ष नः । वदन्निति ततो वज्रप्रभुस्तन्निदधे हृदि ॥ १५० ॥ पटं विस्तार्य तत्रोपवेश्य संघं तदा सुदा । विद्ययाकाशगामिन्याचलयोना सुपर्णवत् ॥ १५१ ॥ तत्र शय्यातरोदू(ई)रं गतस्तृणगवेषणे। अन्वागतो वदन्दीनः सोऽपि न्यस्तारिसूरिणा ॥ १५२ ॥ आययौ सुस्थदेशस्थामचिरेण महापुरीम् । वौद्धशासनपक्षीयनृपलोकैरधिष्टिताम् ॥ १५३ ॥ सुखं तिष्ठति संघे च सुभिक्षाद्राजसौस्थ्यतः। सर्वपर्वोत्तमं पाययौ पर्युषणाभिधम् ॥ १५४ ॥ राजा च प्रत्यनीकत्वात्कुसुमानि न्यषेधयत् । संघो व्यजिज्ञपद्वजं जिना चिन्तयार्दितः॥ १५५॥ उत्पत्य तत आकाशे काशसंकाशकीर्तिभृत् । माहेश्वर्या उपर्यागान्नगर्याः कोविदार्यमा ॥ १५६ ॥ आरामस्थः पितुर्मित्रमारामिकगुणाग्रणीः। . वज्रं च कुलसिंहाख्यो वीक्ष्य नत्वा च संजगौ ॥ १५७ ।। किमप्यादिश मे नाथ कार्य सूरिरतोऽवदत् ।। सुमनः सुमनोभिर्मे कार्यमार्य कुरुष्व तत् ॥ १५८॥ पूज्यैावृत्तिवेलायां ग्राह्याणीति निशम्य लः। ययौ देव्याः श्रियः पार्श्वे तं क्षुद्रहिमवगिरिम् ॥ १५९ ॥ धर्मलाभाशिषानन्ध तां देवीं कार्यमादिशत् । ददौ सहस्रपत्रं सा देवार्चार्थ करस्थितम् ॥ १६० ॥ तदादाय प्रभुर्वज्रः पितृमित्रस्य संनिधौ । आययौ विंशतिर्लक्षाः पुष्पाणां तेन ढौकिताः ॥ १६१ ॥
१J & H read अदृष्टे. २J & H readd स्वस्थ. ३ Halil J read पुरिम्. ४ J_and P reul उपत्यत आकाशे. ५ . reads महेश्वर्या, H माहेश्चर्या. ६J& Hread ककुलसिंहाख्यो. ७J and H read कार्याकार्य. ८J& H देयाः श्रियः chungel to देत्या श्रयः and हिमवद्गिरम्.